Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 669

1875 Mantra
Devata- इन्द्राग्नी Rishi- विश्वामित्रो गाथिनः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा꣢ग्नी꣣ आ꣡ ग꣢तꣳ सु꣣तं꣢ गी꣣र्भि꣢꣫र्न꣣भो व꣡रे꣢ण्यम् । अ꣣स्य꣡ पा꣢तं धि꣣ये꣢षि꣣ता꣢ ॥६६९॥

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । आ । ग꣣तम् । सुत꣢म् । गी꣣र्भिः꣢ । न꣡भः꣢꣯ । व꣡रेण्य꣢꣯म् । अ꣣स्य꣢ । पा꣣तम् । धिया꣢ । इ꣣षि꣢ता ॥६६९॥

Mantra without Swara
इन्द्राग्नी आ गतꣳ सुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ॥

इन्द्राग्नी । इन्द्र । अग्नीइति । आ । गतम् । सुतम् । गीर्भिः । नभः । वरेण्यम् । अस्य । पातम् । धिया । इषिता ॥६६९॥

Samveda - Mantra Number : 669
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) आत्ममनसी ! युवाम् (गीर्भिः) गुरूणां वाग्भिः (सुतम्) अभिषुतम्, निष्पादितम् (नभः) सूर्यमिव प्रकाशमानम्। [नभः आदित्यो भवति, नेता रसानां, नेता भासां, ज्योतिषां प्रणयः, अपि वा भन एव स्याद् विपरीतः, न भातीति वा निरु० २।१४।] (वरेण्यम्) वरणीयं श्रेष्ठं वा ज्ञानरूपं सोमरसं प्रति। [वृञ् वरणे धातोः ‘वृञ एण्यः’ उ० ३।९८, इति एण्यः प्रत्ययः।] (आ गतम्२) आगच्छतम्। (धिया) बुद्ध्या (इषिता) इषितौ तत्परौ प्रयतमानौ युवाम् (अस्य) एतस्य ज्ञानरसस्य इमं ज्ञानरसमित्यर्थः। [द्वितीयार्थे, षष्ठी।] (पातम्) रक्षतम् ॥१॥३ अत्र ‘नभ’ इत्यत्र वाचकधर्मलुप्तोपमालङ्कारः ॥१॥
Essence
वाचस्पतिना गुरुणा शिष्याय यज्ज्ञानमुपदिश्यते तत् तेन सावधानतया स्वात्ममनोबुद्धियोगपूर्वकं श्रुत्वा मत्वा च हृदि धारणीयं प्रचारणीयं तदनुकूलमाचरणीयं च ॥१॥
Subject
तत्रादौ ‘इन्द्राग्नी’ इत्यनेन जीवात्मानं मनश्च आह्वयति। इन्द्रः आत्मा प्रसिद्धः। अग्निश्च मनः, ‘मन एवाग्निः’ श० १०।१।२।३ इति प्रामाण्यात्।
Footnote
१. ऋ० ३।१२।१ २. अत्र गम्लृ गतौ इत्यस्माद् ‘बहुलं छन्दसि’ इति शपो लुकि सति शित्वाभावाच्छस्याभावो ‘अनुदात्तोपदेश’ इत्यादिना मलोपश्च—इति य० ७।८ भाष्ये द०। ३. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये अध्यापकोपदेशकविषये व्याख्यातवान्।