Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 668

1875 Mantra
Devata- इन्द्रः Rishi- इरिम्बिठिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ब्र꣣ह्मा꣡ण꣢स्त्वा यु꣣जा꣢ व꣣य꣡ꣳ सो꣢म꣣पा꣡मि꣢न्द्र सो꣣मि꣡नः꣢ । सु꣣ता꣡व꣢न्तो हवामहे ॥६६८॥

ब्र꣣ह्मा꣡णः꣢ । त्वा꣣ । युजा꣢ । व꣣य꣢म् । सो꣣मपा꣢म् । सो꣣म । पा꣢म् । इ꣣न्द्र । सो꣡मिनः꣢ । सु꣣ता꣡वन्तः꣢ । ह꣣वामहे ॥६६८॥

Mantra without Swara
ब्रह्माणस्त्वा युजा वयꣳ सोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥

ब्रह्माणः । त्वा । युजा । वयम् । सोमपाम् । सोम । पाम् । इन्द्र । सोमिनः । सुतावन्तः । हवामहे ॥६६८॥

Samveda - Mantra Number : 668
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) आत्मन् ! हे शिष्य ! (सोमपाम्) ज्ञानस्य पातारम् (त्वा) त्वाम् (सोमिनः) ज्ञानवन्तः (सुतावन्तः) अनेके सुताः शिष्यरूपाः पुत्राः येषां सन्तीति तादृशाः। [सुतवन्तः इति प्राप्ते दीर्घश्छान्दसः।] (ब्रह्माणः) ब्रह्मज्ञानिनः (वयम्) गुरवः (युजा) पारस्परिकसहयोगेन त्वया सह घनिष्ठसम्बन्धेन वा (हवामहे) विद्याध्यापनार्थं सदाचारशिक्षणार्थं च आह्वयामः ॥३॥
Essence
ये स्वयं विद्यावन्तः सदाचारिणः प्राप्तब्रह्मानुभवाश्च गुरवो भवन्ति त एव शिष्यान् विदुषः सदाचारिणो ब्रह्मज्ञानिनश्च कर्त्तुं पारयन्ति ॥३॥
Subject
अथ पुनरपि तमेव विषयमाह।
Footnote
१. ८।१७।३, अथ० २०।३।३।, ३८।३, ४७।९, अथर्ववेदे सर्वत्र ‘युजा वयं’ इत्यत्र ‘वयं युजा’ इति पाठः।