Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 666

1875 Mantra
Devata- इन्द्रः Rishi- इरिम्बिठिः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
आ꣡ या꣢हि सुषु꣣मा꣢꣫ हि त꣣ इ꣢न्द्र꣣ सो꣢मं꣣ पि꣡बा꣢ इ꣣म꣢म् । एदं꣢꣫ ब꣣र्हिः꣡ स꣢दो꣣ म꣡म꣢ ॥६६६॥

आ꣢ । याहि꣣ । सुषुम꣢ । हि । ते꣢ । इ꣡न्द्र꣢꣯ । सो꣡मम्꣢꣯ । पिब । इ꣡म꣢꣯म् । आ । इ꣣द꣢म् । ब꣣र्हिः꣢ । स꣣दः । म꣡म꣢꣯ ॥६६६॥

Mantra without Swara
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिः सदो मम ॥

आ । याहि । सुषुम । हि । ते । इन्द्र । सोमम् । पिब । इमम् । आ । इदम् । बर्हिः । सदः । मम ॥६६६॥

Samveda - Mantra Number : 666
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) अन्तरात्मन् ! (त्वम्) आयाहि आगच्छ, वयम् (ते) तुभ्यम् (सोमम्) ज्ञानरसं (सुषुम) चक्षुःश्रोत्रादिभिः ज्ञानसाधनैः अभिषुतवन्तः। त्वम् (इमम्) ज्ञानरसम् (पिब) आस्वादय, ज्ञानेन्द्रियैरुपलब्धं ज्ञानं मनसा मनुष्वेत्यर्थः। त्वम् (इदम्) एतत् (मम) मदीयम् (बर्हिः) हृदयासनम् (आ सदः) आसन्नोऽसि ॥१॥
Essence
मनोमाध्यमेन ज्ञानेन्द्रियैः प्राप्तस्य ज्ञानस्य मनननिदिध्यासनाभ्यां पूर्णसाक्षात्कारो विधेयः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १९१ क्रमाङ्के परमात्मनृपत्याचार्यविषये व्याख्याता। अत्र जीवात्म१विषये व्याख्यायते। इन्द्रनाम्ना स्वान्तरात्मानं सम्बोधयति।
Footnote
१. इन्द्रः इन्द्रियवान् जीवः, इति ऋ० १।१०१।५ भाष्ये, इन्द्रस्य इन्द्रियस्वामिनो जीवस्य—इति च य० १९।३ भाष्ये द०। ‘इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा’ अ० ५।२।९३ इति पाणिनिसूत्रमपि इन्द्रस्य जीवात्मवाचकत्वं प्रमाणीकरोति। २. ऋ० ८।१७।१, साम० १९१, अथ० २०।३।१, ३८।१, ४७।७।