Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 665

1875 Mantra
Devata- मित्रावरुणौ Rishi- विश्वामित्रो गाथिनो जमदग्निर्वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
गृ꣣णाना꣢ ज꣣म꣡द꣢ग्निना꣣ यो꣡ना꣢वृ꣣त꣡स्य꣢ सीदतम् । पा꣣त꣡ꣳ सोम꣢꣯मृतावृधा ॥६६५॥

गृणाना꣢ । ज꣣म꣡द꣢ग्निना । ज꣣म꣢त् । अ꣣ग्निना । यो꣡नौ꣢꣯ । ऋ꣣त꣡स्य꣢ । सी꣣दतम् । पात꣢म् । सो꣡म꣢꣯म् । ऋ꣣तावृधा । ऋत । वृधा ॥६६५॥

Mantra without Swara
गृणाना जमदग्निना योनावृतस्य सीदतम् । पातꣳ सोममृतावृधा ॥

गृणाना । जमदग्निना । जमत् । अग्निना । योनौ । ऋतस्य । सीदतम् । पातम् । सोमम् । ऋतावृधा । ऋत । वृधा ॥६६५॥

Samveda - Mantra Number : 665
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मित्रावरुणौ परमात्मजीवात्मानौ (जमदग्निना२) प्रज्वलिताग्निना यजमानेन। [जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा। निरु० ७।२५।] (गृणाना) गीर्यमाणौ स्तूयमानौ युवाम्। [अत्र कर्मणि शानच्।] (ऋतस्य योनौ) सत्यस्य सदने हृदये (सीदतम्) तिष्ठतम्। हे (ऋतावृधौ३) ऋतावृधौ सत्यस्य वर्धकौ ! युवाम् (सोमम्) शान्तिम् (पातम्) रक्षतम् ॥३॥
Essence
परमात्मनः सकाशात् प्रेरणां प्राप्य जीवात्मानो यदा जगति शान्तिरक्षणाय प्रयतन्ते तदैव परस्परं सहृदयत्वं सांमनस्यं च जायते ॥३॥
Subject
अथ परमात्मजीवात्मानौ आह्वयति।
Footnote
१. ऋ० ३।६२।१८, ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममध्यापकोपदेशक- विषये व्याख्यातवान्। २. जमदग्निना एतन्नामकेन महर्षिणा, यद् वा जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण—इति सा०। ३. ऋतावृधौ यज्ञेन वर्द्धितौ—इति वि०।