Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 664

1875 Mantra
Devata- मित्रावरुणौ Rishi- विश्वामित्रो गाथिनो जमदग्निर्वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣣रुश꣡ꣳसा꣢ नमो꣣वृ꣡धा꣢ म꣣ह्ना꣡ दक्ष꣢꣯स्य राजथः । द्रा꣣घि꣢ष्ठाभिः शुचिव्रता ॥६६४॥

उ꣣रुश꣡ꣳसा꣢ । उ꣣रु । श꣡ꣳसा꣢꣯ । न꣣मोवृ꣡धा꣢ । न꣣मः । वृ꣡धा꣢꣯ । म꣣हा꣢ । द꣡क्षस्य꣢꣯ । रा꣣जथः । द्रा꣡घि꣢꣫ष्ठाभिः । शुचिव्रता । शुचि । व्रता ॥६६४॥

Mantra without Swara
उरुशꣳसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता ॥

उरुशꣳसा । उरु । शꣳसा । नमोवृधा । नमः । वृधा । महा । दक्षस्य । राजथः । द्राघिष्ठाभिः । शुचिव्रता । शुचि । व्रता ॥६६४॥

Samveda - Mantra Number : 664
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मित्रावरुणौ परमात्मजीवात्मानौ (जमदग्निना२) प्रज्वलिताग्निना यजमानेन। [जमदग्नयः प्रजमिताग्नयो वा प्रज्वलिताग्नयो वा। निरु० ७।२५।] (गृणाना) गीर्यमाणौ स्तूयमानौ युवाम्। [अत्र कर्मणि शानच्।] (ऋतस्य योनौ) सत्यस्य सदने हृदये (सीदतम्) तिष्ठतम्। हे (ऋतावृधौ३) ऋतावृधौ सत्यस्य वर्धकौ ! युवाम् (सोमम्) शान्तिम् (पातम्) रक्षतम् ॥३॥
Essence
परमात्मनः सकाशात् प्रेरणां प्राप्य जीवात्मानो यदा जगति शान्तिरक्षणाय प्रयतन्ते तदैव परस्परं सहृदयत्वं सांमनस्यं च जायते ॥३॥
Subject
अथ परमात्मजीवात्मानौ आह्वयति।
Footnote
१. ऋ० ३।६२।१८, ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिममध्यापकोपदेशक- विषये व्याख्यातवान्। २. जमदग्निना एतन्नामकेन महर्षिणा, यद् वा जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण—इति सा०। ३. ऋतावृधौ यज्ञेन वर्द्धितौ—इति वि०।