Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 662

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ नः꣢ पृ꣣थु꣢ श्र꣣वा꣢य्य꣣म꣡च्छा꣢ देव विवाससि । बृ꣣ह꣡द꣢ग्ने सु꣣वी꣡र्य꣢म् ॥६६२॥

सः꣢ । नः꣣ । पृ꣢थु । श्र꣣वा꣡य्य꣢म् । अ꣡च्छ꣢꣯ । दे꣣व । विवाससि । बृह꣢त् । अ꣣ग्ने । सु꣡वी꣢र्यम् । सु꣣ । वी꣡र्य꣢꣯म् ॥६६२॥

Mantra without Swara
स नः पृथु श्रवाय्यमच्छा देव विवाससि । बृहदग्ने सुवीर्यम् ॥

सः । नः । पृथु । श्रवाय्यम् । अच्छ । देव । विवाससि । बृहत् । अग्ने । सुवीर्यम् । सु । वीर्यम् ॥६६२॥

Samveda - Mantra Number : 662
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (देव) सुप्रकाशक (अग्ने) भोतिकाग्ने, अन्तरात्मन्, परमात्मन् वा ! (सः) प्रसिद्धः त्वम् (नः अच्छ) अस्मान् प्रति (पृथु) विपुलम्, (श्रवाय्यम्) कीर्तिजनकम्। [श्रावयतीति श्रवाय्यः। श्रु धातोः ‘श्रुदक्षिस्पृहिगृहिभ्य आय्यः उ० ३।९६’ इति आय्यप्रत्ययः।] (बृहत्) महत्। (सुवीर्यम्) सुवीर्योपेतम् भौतिकाध्यात्मिकं धनम् (विवाससि२) परिचर प्रेषय इत्यर्थः। विवासतिः परिचर्याकर्मा। निघं० ३।५, विध्यर्थे लेट् परिचरणं चात्र प्रापणम् ॥३॥३
Essence
भौतिकाग्निर्यथा यज्ञे शिल्पकर्मणि च योजितः स्वास्थ्यधनधान्यादिकं प्रापयति तथैवात्माग्निरुद्बोधितः परमात्माग्निश्चोपासितो महतीमध्यात्मसम्पदं प्रयच्छति ॥३॥
Subject
अथ पुनरपि यज्ञाग्निमात्माग्निं परमात्माग्निं च सम्बोधयति।
Footnote
१. ऋग्वेद ६।१६।१२ २. विवाससि.... दीप्तिकरोषि—इति वि०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं मनुष्यैः परस्परं कथं वर्तितव्यमिति विषये व्याख्यातवान्।