Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 661

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
तं꣡ त्वा꣢ स꣣मि꣡द्भि꣢रङ्गिरो घृ꣣ते꣡न꣢ वर्धयामसि । बृ꣣ह꣡च्छो꣢चा यविष्ठ्य ॥६६१॥

त꣢म् । त्वा꣣ । समि꣡द्भिः꣢ । सम् । इ꣡द्भिः꣢꣯ । अ꣣ङ्गिरः । घृ꣡ते꣢न । व꣣र्द्धयामसि । बृह꣢त् । शो꣣च । यविष्ठ्य ॥६६१॥

Mantra without Swara
तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥

तम् । त्वा । समिद्भिः । सम् । इद्भिः । अङ्गिरः । घृतेन । वर्द्धयामसि । बृहत् । शोच । यविष्ठ्य ॥६६१॥

Samveda - Mantra Number : 661
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—यज्ञाग्निपरः। हे (अङ्गिरः) चपलज्वाल यज्ञाग्ने ! [अगि गतौ। यः अङ्गति गच्छति सोऽङ्गिराः, तत्सम्बुद्धौ अङ्गिरः इति। अगि धातोः अङ्गिराः। उ० ४।२३७ इति निपातनाद् असिप्रत्ययः इरुडागमश्च।] (तं त्वा) तादृशं त्वाम्, वयम् (समिद्भिः) काष्ठैः (घृतेन) आज्येन च (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य२) युवतम ! (अतिशयेन युवा यविष्ठः, यविष्ठ एव यविष्ठ्यः, स्वार्थे यत्।) त्वम् (बृहत्) अत्यधिकम् (शोच) दीप्यस्व ॥ द्वितीयः—जीवात्मपरः। स्वात्मानं समुद्बोधयति—हे (अङ्गिरः) कर्मशील मदीय अन्तरात्मन् ! (तं त्वा) तादृशं बहुकर्मक्षमं त्वाम् वयम् (समिद्धिः) ज्ञानेन्धनैः (घृतेन) सत्कर्मरूपेण आज्येन च (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य) तरुणतम ! त्वम्, संसारे (बृहत्) अत्यधिकम् (शोच) प्रदीप्यस्व ॥ तृतीयः—परमात्मपरः। हे (अङ्गिरः) प्राणप्रिय परमात्मन् ! (तं त्वा) तादृशं सर्वकर्मसमर्थं त्वाम्, वयम् (समिद्धिः) समिन्धनसाधनैः योगाङ्गैः घृतैः स्नेहयुतैः भक्तिभावैश्च, स्वान्तःकरणे (वर्धयामसि) वर्धयामः। हे (यविष्ठ्य) समृद्धतम भगवन्। त्वम् अस्मदन्तःकरणे (बृहत्) अत्यधिकम् (शोच) दीप्यस्व३ ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
मनुष्यैर्यज्ञाग्निं समिध्य संवर्ध्य च स्वयमपि तेजसा समिद्धैः संवृद्धैश्च भाव्यम्। तथैव मनुष्यैः स्वात्मानमुद्बोध्य निर्भ्रान्तं ज्ञानराशिं संचित्य महोज्ज्वलानि कर्माणि कृत्वा महती कीर्तिः प्राप्तव्या। अथ च योगाभ्यासैः भक्त्या च परमात्माग्निः स्वात्मनि प्रदीपनीयः ॥२॥
Subject
अथ यज्ञाग्निमात्माग्निं परमात्मात्माग्निं च सम्बोधयति।
Footnote
१. ऋ० ६।१६।११, य० ३।३। २. यविष्ठ्यः अतिशयेन बलवान्—इति वि०। ३. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये वाचकलुप्तोपमामाश्रित्य ये राजादयो जनाः घृतेनाग्निमिव शिक्षासत्काराभ्यां शूरान् वर्धयन्ति ते सदा विजयमाप्नुवन्तीत्यादिरूपेण, यजुर्भाष्ये, ‘भौतिकोऽग्निर्होमशिल्पविद्यासिद्धये साधनैरिन्धनादिभिर्नित्यं वर्धनीय इत्यादिरुपेण’ व्याख्यातवान्।