Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 660

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢ग्न꣣ आ꣡ या꣢हि वी꣣त꣡ये꣢ गृणा꣣नो꣢ ह꣣व्य꣡दा꣢तये । नि꣡ होता꣢꣯ सत्सि ब꣣र्हि꣡षि꣢ ॥६६०॥

अ꣡ग्ने꣢꣯ । आ । या꣣हि । वीत꣡ये꣢ । गृ꣣णानः꣢ । ह꣣व्य꣡दा꣢तये । ह꣣व्य꣢ । दा꣣तये । नि꣢ । हो꣡ता꣢꣯ । स꣣त्सि । बर्हि꣡षि꣢ ॥६६०॥

Mantra without Swara
अग्न आ याहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥

अग्ने । आ । याहि । वीतये । गृणानः । हव्यदातये । हव्य । दातये । नि । होता । सत्सि । बर्हिषि ॥६६०॥

Samveda - Mantra Number : 660
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—यज्ञाग्निपरः। अग्निहोत्रमाध्यमेन दिव्यं तेजः स्वान्तरात्मनि संदिदीपयिषुर्यज्ञाग्निमाह्वयति—हे (अग्ने) यज्ञवह्ने ! त्वम् (आयाहि) अस्मद्यज्ञमागच्छ। किमर्थम् ? (वीतये) हविषां भक्षणाय। (गृणानः२) मन्त्रपाठद्वाराऽस्माभिः स्तूयमानः रोगपापादीन् निगिरन् वा त्वम् [गॄ शब्दे क्र्यादिः, गॄ निगरणे तुदादिः।]। (हव्यदातये) हव्यानां देयानां तेजआदीनां दातिः दानं तस्मै, यद्वा हव्यानां हुतानां सुगन्धिमिष्टपुष्टिरोगनाशकगुणैर्युक्तानां हविषां दातिः सूक्ष्मीकृत्य वायुमण्डले प्रसारणं तस्मै, आयाहि। (होता) हुतद्रव्याणाम् आदाता आरोग्यदीर्घायुष्यादीनां प्रदाता च त्वम् (बर्हिषि) यज्ञवेद्या अन्तरिक्षे [बर्हिः इत्यन्तरिक्षनाम। निघं० १।३]। (नि सत्सि) निषीद। अत्राचेतने यज्ञाग्नौ चेतनवद् व्यवहार आलङ्कारिकः। द्वितीयः—जीवात्मोद्बोधनपरः। हे (अग्ने) मदीय अन्तरात्मन् ! त्वम् (आयाहि) कर्मभूमिम् आगच्छ। किमर्थम् ? (वीतये) कर्मकरणाय। [वी धातुरत्र गत्यर्थः।] (गृणानः) कर्मयोगम् उपदिशन् (हव्यदातये) परोपकाराय स्वात्मार्पणं कर्त्तुम्, आयाहि। (होता) राष्ट्रसंघटनाय जनानाम् आह्वाता सन् (बर्हिषि) उच्चपदे (नि सत्सि) निषीद ॥१॥३ अत्र श्लेषालङ्कारः ॥१॥
Essence
सर्वैर्ऋत्वनुकूलहव्यैरग्निहोत्रेण वायुमण्डलं सुगन्धि रोगकृमिरहितं च निष्पाद्य यज्ञाग्निवत् तीव्रं तेजः परमात्मज्योतिश्च स्वान्तःकरणे निधाय भौतिकाध्यात्मिकसम्पत् प्राप्तव्या। किञ्च, ‘कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः।’ अथ० ७।५२।८ इति वैदिकसन्देशं मुखरीकृत्य स्वात्मानं समुद्बोध्य जनहितकराणि महान्ति कर्माणि करणीयानि, राष्ट्रहिताय स्वबलिदानादपि च न भेतव्यम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १ क्रमाङ्के परमात्मविद्वन्नृपतीनां पक्षे व्याख्यातपूर्वा। अत्र यज्ञाग्निपक्षे जीवात्मपक्षे च व्याख्यायते।
Footnote
१. ऋ० ६।१६।१०, साम० १। २. गृणानः स्तूयमानः इति वि०। गृणानः स्तूयमानः, गृणातेः ‘भावकर्मणोः’ पा० १।३।१३। इत्यात्मनेदम्, यक्स्थाने श्ना प्रत्ययो व्यत्ययेन छान्दसः। ‘गृणाना जमदग्निना’ ऋ० ३।६२।१८ इति हि भवति—इति भ०। गृणानः अस्माभिः स्तूयमानः इति सा०। ३. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विद्वत्पक्षे व्याख्यातवान्।