Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 66

1875 Mantra
Devata- अग्निः Rishi- कुत्स आङ्गिरसः Chhand- जगती Swara- निषादः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
इ꣣म꣢꣫ꣳ स्तो꣣म꣡मर्ह꣢ते जा꣣त꣡वे꣢दसे र꣡थ꣢मिव꣣ सं꣡ म꣢हेमा मनी꣣ष꣡या꣢ । भ꣣द्रा꣢꣫ हि नः꣣ प्र꣡म꣢तिरस्य स꣣ꣳस꣡द्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥६६॥

इ꣣म꣢म् । स्तो꣡मम꣢꣯म् । अ꣡र्ह꣢꣯ते । जा꣣त꣡वे꣢दसे । जा꣣त꣢ । वे꣣दसे । र꣡थ꣢꣯म् । इ꣣व । स꣢꣯म् । म꣣हेम । मनीष꣡या꣢ । भ꣣द्रा꣢ । हि । नः꣣ । प्र꣡म꣢꣯तिः । प्र । म꣣तिः । अस्य । सँस꣡दि꣢ । सम् । स꣡दि꣢꣯ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥६६॥

Mantra without Swara
इमꣳ स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया । भद्रा हि नः प्रमतिरस्य सꣳसद्यग्ने सख्ये मा रिषामा वयं तव ॥

इमम् । स्तोममम् । अर्हते । जातवेदसे । जात । वेदसे । रथम् । इव । सम् । महेम । मनीषया । भद्रा । हि । नः । प्रमतिः । प्र । मतिः । अस्य । सँसदि । सम् । सदि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥६६॥

Samveda - Mantra Number : 66
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अर्हते) पूज्याय। अर्ह पूजायाम्, शतृप्रत्ययः। (जातवेदसे२) यो जातानि वेत्ति, जाते-जाते विद्यते, जातं वेदो धनं वेदज्ञानं वा यस्मात् तस्मै परमेश्वराय (मनीषया) मनोयोगेन (इमम्) अस्माकं हृदये विद्यमानम् (स्तोमम्) स्तोत्रम् (संमहेम३) सत्कारपूर्वकं प्रापयेम। अत्र संपूर्वो मह पूजायामिति धातुर्बोध्यः। (रथम् इव) यथा कश्चित् पूज्यजनं समाह्वातुं तदन्तिके रथं प्रापयति तथा। (अस्य) परमात्मनः (संसदि) संगतौ (नः) अस्माकम् (प्रमतिः) प्रखरा मतिः (भद्रा हि) भद्रैव भवतु। हे (अग्ने) तेजोमय परमात्मन् ! (वयम्) प्रजाजनाः (तव) त्वदीये (सख्ये) मैत्रीभावे (मा) नैव (रिषाम) हिंसिता भवेम। रिष हिंसायाम् इति धातोः लेटि रूपम्। संमहेमा, रिषामा इत्युभयत्र अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः ॥४॥४ स्तोमं रथमिव संमहेम इत्यत्र पूर्णोपमालङ्कारः। यथा कञ्चित् सुयोग्यं विद्वांसं स्वोत्सवेषु समानेतुं तस्मै रथः प्रेष्यते, तथा पूज्यं परमेश्वरं स्वहृदयसदने समानेतुं तस्मै स्तोमः प्रेष्येत। आलङ्कारिकीयं भाषा वेद्या, पूर्वमेव परमेश्वरस्यास्माकं हृदये विद्यमानत्वात् ॥४॥
Essence
अव्यक्तरूपेण हृदये स्थितः परमेश्वरोऽस्माकं स्तोमेन जागर्ति, बुद्धिं चास्माकं सन्मार्गगामिनीं भद्रां विधाय विनाशादस्मान् रक्षति ॥४॥
Subject
अथ परमेश्वरस्य स्तुत्या तत्संगत्या च वयं कि लभेमहीत्याह।
Footnote
१. ऋ० १।९४।१, अथ–० २०।१३।३, साम० १०६४। २. जातवेदस् शब्दस्य निर्वचनार्थं द्रष्टव्यम् ३१ संख्याकस्य मन्त्रस्य व्याख्यानम्। ३. महतिरत्र गमनार्थः अन्तर्णीतण्यर्थश्च द्रष्टव्यः। यथा कश्चिद् रथं गमयति तद्वत् गमयेम—इति वि०। संमहेम सम्यक् प्रयच्छामः—इति भ०। रथमिव यथा तक्षा रथं संस्करोति तथा संमहेम सम्यक् पूजितं कुर्मः—इति सा०। ४. अत्र अग्निशब्देन विद्वद्भौतिकार्थावुपदिश्येते इति ऋग्भाष्ये द०।