Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 658

1875 Mantra
Devata- पवमानः सोमः Rishi- शतं वैखानसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣢च्छा꣣ को꣡शं꣢ मधु꣣श्चु꣢त꣣म꣡सृ꣢ग्रं꣣ वा꣡रे꣢ अ꣣व्य꣡ये꣢ । अ꣡वा꣢वशन्त धी꣣त꣡यः꣢ ॥६५८॥

अ꣡च्छ꣢꣯ । को꣡श꣢꣯म् । म꣣धुश्चु꣡त꣢म् । म꣣धु । श्चु꣡त꣢꣯म् । अ꣡सृ꣢꣯ग्रम् । वा꣡रे꣢꣯ । अ꣣व्य꣡ये꣣ । अ꣡वा꣢꣯वशन्त । धी꣣त꣡यः꣢ ॥६५८॥

Mantra without Swara
अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये । अवावशन्त धीतयः ॥

अच्छ । कोशम् । मधुश्चुतम् । मधु । श्चुतम् । असृग्रम् । वारे । अव्यये । अवावशन्त । धीतयः ॥६५८॥

Samveda - Mantra Number : 658
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सोमौषधिरसपक्षे। अहम् (मधुश्चुतम्) मधुस्राविणं सोमौषधिरसम्, (कोशम् अच्छ) द्रोणकलशम् अभिलक्ष्य (अव्यये वारे) अविस्वभूते बाले, अविबालमये दशापवित्रे इत्यर्थः (असृग्रम्२) विसृजामि। मम (धीतयः) अङ्गुलयः। [धीतयः इत्यङ्गुलिनाम। निघं० २।५।] (अवावशन्त) सोमं क्षारयितुं कामयन्ते, प्रवर्तन्ते इत्यर्थः। [वश कान्तौ, यङ्लुगन्तः]। द्वितीयः—ब्रह्मानन्दपक्षे। अहम् (मधुश्चुतम्) माधुर्यस्राविणं ब्रह्मानन्दरूपं सोमरसम् (कोशम् अच्छ) मनोबुद्धिज्ञानेन्द्रियरूपं विज्ञानमयकोशं प्रापयितुम् (अव्यये वारे) अविनश्वरे कामक्रोधादिशत्रुनिवारयितरि आत्मनि (असृग्रम्) विसृजामि। मम (धीतयः) स्तुतयः (अवावशन्त) प्रभुगीतानि शब्दायन्ते। [वाशृ शब्दे धातोर्यङ्लुकि छान्दसं रूपम्] ॥२॥ अत्र श्लेषालङ्कारः ॥२॥
Essence
यथा सोमौषधिरसो दशापवित्रमाध्यमेन द्रोणकलशं प्रवेश्यते तथैव ब्रह्मानन्दरस आत्मद्वारेण सर्वस्मिन्नपि मनोबुद्ध्यादौ प्रवेशनीयो येनास्माकं दर्शनश्रवणमनननिदिध्यासनादिकं सर्वमपि व्यवहारजातं ब्रह्मानन्दमयं भवेत् ॥२॥
Subject
अथ पुनः सोमरसविषयमाह।
Footnote
१. ऋ० ९।६६।११। २. असृग्रम् ‘बहुलं छन्दसि’ अ० ७।१।८ अनेन सृजधातोः रुडागमः, वर्णव्यत्ययेन जकारस्थाने गकारः, लडर्थे लङ् च इति ऋ० १।९।४ भाष्ये द०।