Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 657

1875 Mantra
Devata- पवमानः सोमः Rishi- शतं वैखानसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानस्य ते कवे꣣ वा꣢जि꣣न्त्स꣡र्गा꣢ असृक्षत । अ꣡र्व꣢न्तो꣣ न꣡ श्र꣢व꣣स्य꣡वः꣢ ॥६५७॥

प꣡व꣢꣯मानस्य । ते꣣ । कवे । वा꣡जि꣢꣯न् । स꣡र्गाः꣢꣯ । अ꣣सृक्षत । अ꣡र्व꣢꣯न्तः । न । श्र꣣वस्य꣡वः꣢ ॥६५७॥

Mantra without Swara
पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत । अर्वन्तो न श्रवस्यवः ॥

पवमानस्य । ते । कवे । वाजिन् । सर्गाः । असृक्षत । अर्वन्तः । न । श्रवस्यवः ॥६५७॥

Samveda - Mantra Number : 657
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (कवे) वेदकाव्यकार ! हे (वाजिन्) बलवन् परमेश्वर ! (पवमानस्य) पवित्रीकुर्वतः (ते) तव (सर्गाः) आनन्दधाराः। [सृज्यन्ते इति सर्गाः धाराः।] (श्रवस्यवः) अस्माकं कीर्तिं कामयमानाः सत्यः। [छन्दसि परेच्छायां क्यच्। ततश्च ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उः प्रत्ययः।] (असृक्षत) विसृष्टा भवन्ति, प्रस्यन्दन्ते। [सृज विसर्गे, कर्मणि लुङि छान्दसं रूपम्।] कथमिव ? (अर्वन्तः न) यथा अश्वाः, [अश्वशालायाः विसृष्टा भवन्ति।] अर्वन्तः अपि कीदृशाः ? (श्रवस्यवः) श्रवः घासादिकम् अन्नम् आत्मनः कामयमानाः। बहिर्गत्वा गोचरेषु घासं चरितुकामाः अश्वाः यथा सद्यो मन्दुरातो निर्गच्छन्ति तथेत्यर्थः। [श्रवः इत्यन्ननाम यशोनाम च। निघं० २।७, ११।७] ॥१॥ अत्रोपमालङ्कारः। ‘श्रवस्यवः’ इत्यत्र श्लेषः ॥१॥
Essence
परमात्मोपासका जनाः परमात्मनः सकाशात् स्वात्मानं प्रविशतोऽमन्दानन्दनिर्झरान् साक्षादनुभवन्ति ॥१॥
Subject
तत्रादौ परमात्मसोमस्य रसधारा वर्ण्यन्ते।
Footnote
१. ऋ० ९।६६।१०।