Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 656

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ऋ꣣ध꣡क्सो꣢म स्व꣣स्त꣡ये꣢ संजग्मा꣣नो꣢ दि꣣वा꣡ क꣢वे । प꣡व꣢स्व꣣ सू꣡र्यो꣢ दृ꣣शे꣢ ॥६५६॥

ऋ꣣ध꣢क् । सो꣣म । स्व꣣स्त꣡ये꣢ । सु꣣ । अस्त꣡ये꣢ । सं꣣जग्मानः꣢ । स꣣म् । जग्मानः꣢ । दि꣣वा꣢ । क꣣वे । प꣡व꣢꣯स्व । सू꣡र्यः꣢꣯ । दृ꣣शे꣢ ॥६५६॥

Mantra without Swara
ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे । पवस्व सूर्यो दृशे ॥

ऋधक् । सोम । स्वस्तये । सु । अस्तये । संजग्मानः । सम् । जग्मानः । दिवा । कवे । पवस्व । सूर्यः । दृशे ॥६५६॥

Samveda - Mantra Number : 656
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जीवात्मपरः। हे (कवे) मेधाविन् क्रान्तदर्शिन् (सोम) चन्द्रवद् वृद्धिशील जीवात्मन् ! त्वम् (दिवा) परमात्मज्योतिषा (संजग्मानः) संगच्छमानः सन् (स्वस्तये) उत्कृष्टजीवनाय। [अस्तिरभिपूजितः स्वस्तिरिति निरुक्तम्। ३।२१।१२।] (ऋधक्) ऋध्नुवन्, वर्धमानः भव। [ऋधगिति पृथग्भावस्यानुप्रवचनं भवति, अथापि ऋध्नोत्यर्थे दृश्यते। निरु० ४।२५] (सूर्यः) सूर्य इव प्रकाशमानः सन् (दृशे) मुक्तिमार्गं द्रष्टुम् (पवस्व) प्रयतस्व। [पवते गतिकर्मा। निघं० २।१४] ॥ द्वितीयः—चन्द्रपरः। हे (कवे) पृथिवीं परितो गन्तः। [कवते गतिकर्मा। निघं० २।१४।] (सोम) चन्द्र ! त्वम् (दिवा) सूर्यप्रकाशेन (संजग्मानः) संगच्छमानः (स्वस्तये) अस्मत्कल्याणाय (ऋधक्) एकैकया कलया प्रत्यहं वर्धमानो भव। तथा च पूर्णिमायाम् (सूर्यः) सूर्य इव सम्पूर्णप्रभामण्डलः सन् (दृशे) अस्माकं दर्शनाय (पवस्व) भूमण्डले स्वचन्द्रिकां प्रक्षारय ॥३॥ अत्र श्लेषालङ्कारः। सूर्यः इति लुप्तोपमम्। चन्द्रपक्षे जडे चेतनवद् व्यवहार आलङ्कारिकः ॥३॥
Essence
यथा सूर्याच्चन्द्रः प्रकाशते तथैव परमात्मसूर्याद् वयं प्रकाशिता भवामः ॥३॥
Subject
अथ जीवात्मचन्द्रयोर्विषयमाह।
Footnote
१. ऋ० ९।६४।३० ‘दि॒वः क॒विः’ इति भेदः।