Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 655

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
हि꣣न्वानो꣢ हे꣣तृ꣡भि꣢र्हि꣣त꣡ आ वाजं꣢꣯ वा꣣꣬ज्य꣢꣯क्रमीत् । सी꣡द꣢न्तो व꣣नु꣡षो꣢ यथा ॥६५५॥

हि꣣न्वानः꣢ । हे꣣तृ꣡भिः꣢ । हि꣣तः꣢ । आ । वा꣡जम्꣢꣯ । वा꣣जी꣢ । अ꣣क्रमीत् । सी꣡द꣢꣯न्तः । व꣣नु꣡षः꣢ । य꣣था ॥६५५॥

Mantra without Swara
हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् । सीदन्तो वनुषो यथा ॥

हिन्वानः । हेतृभिः । हितः । आ । वाजम् । वाजी । अक्रमीत् । सीदन्तः । वनुषः । यथा ॥६५५॥

Samveda - Mantra Number : 655
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(हेतृभिः) प्रेरकैः गुरुभिः। [हि गतौ वृद्धौ च, तृच्।] (हितः) शिष्यस्य आत्मनि स्थापितः। [निष्ठायां दधातेर्हिः।] (हिन्वानः) प्रीणयन्। [हिवि प्रीणनार्थः, आत्मनेपदं छान्दसम्।] (वाजी) बलवान् परमात्मसोमः (वाजम्) अन्तःकरणे प्रवृत्तं देवासुरसंग्रामम्। [वाज इति बलनामसु संग्रामनामसु च पठितम्। निघं० २।९, २।७।] (आ अक्रमीत्) आक्रामति। कथम् ? (यथा) येन प्रकारेण (सीदन्तः) प्रयान्तः। [षदलृ विशरणगत्यवसादनेषु।] (वनुषः२) हिंसकाः योद्धारः। [वनुष्यतिर्हन्तिकर्मा। निघं० ५।२।८।] शत्रून् आक्रामन्ति तद्वत् ॥२॥ अत्रोपमालङ्कारः ॥२॥
Essence
हृदि धृतः परमेश्वरो मानसे देवासुरसंग्रामे स्वोपासकं सदा विजयिनं कुरुते ॥२॥
Subject
अथ हृदि धारितः परमात्मसोमः किं करोतीत्याह।
Footnote
१. ऋ० ९।६४।२९, ‘हे॒तृभि॑र्य॒त’ इति भेदः। २. वनुषः हन्तारो भटाः, सीदन्तः युद्धं प्रविशन्तः आक्रामन्ति तद्वत्—इति सा०। वनुषाः मनुष्याः उच्यन्ते। यथा, उपविशन्तो मनुष्या आसनमाक्रामन्ति तद्वत् द्रोणकलशं सोमः—इति वि०।