Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 654

1875 Mantra
Devata- पवमानः सोमः Rishi- कश्यपो मारीचः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
द꣡वि꣢द्युतत्या रु꣣चा꣡ प꣢रि꣣ष्टो꣡भ꣢न्त्या कृ꣣पा꣢ । सो꣡माः꣢ शु꣣क्रा꣡ गवा꣢꣯शिरः ॥६५४॥

द꣡धि꣢꣯द्युतत्या । रु꣡चा꣢ । प꣣रिष्टो꣡भ꣢न्त्या । प꣣रि । स्तो꣡भ꣢꣯न्त्या । कृ꣡पा꣢ । सो꣡माः꣢꣯ । शु꣣क्रा꣢ । ग꣡वा꣢꣯शिरः । गो । आ꣣शिरः ॥६५४॥

Mantra without Swara
दविद्युतत्या रुचा परिष्टोभन्त्या कृपा । सोमाः शुक्रा गवाशिरः ॥

दधिद्युतत्या । रुचा । परिष्टोभन्त्या । परि । स्तोभन्त्या । कृपा । सोमाः । शुक्रा । गवाशिरः । गो । आशिरः ॥६५४॥

Samveda - Mantra Number : 654
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(दविद्युतत्या) अतिशयेन दीप्तया [द्युतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य सप्रसारणाभावः, अत्वं विगागमश्च ‘दाधर्तिदर्द्धर्ति०। अ० ७.४.६५’ इत्यनेन निपात्यते।] (रुचा) कान्त्या, किञ्च (परिष्टोभन्त्या) परितः आश्रयं प्रयच्छन्त्या। [ष्टुभु स्तम्भे, भ्वादिः, स्त्रियां शत्रन्तं रूपम्] (कृपा) शक्त्या। [कृपतेः क्विपि तृतीयैकवचनम्, ‘कृप् कृपतेर्वा कल्पतेर्वा’ इति निरुक्तम्, ६।८।] (गवाशिरः) गवि उपासकस्य आत्मनि आशिरः आश्रिताः (सोमाः) ब्रह्मानन्दरसाः (शुक्राः) स्तोतुः अतिशयेन पावकाः जायन्ते। [शुचिर् पूतीभावे, दिवादिः, शोचयन्तीति शुक्राः ऋज्रेन्द्राग्र०। उ० २.२९ इति रन् प्रत्यये निपातनादन्तोदात्तत्वं च] ॥१॥
Essence
यदा ब्रह्मानन्दरसा उपासकं प्राप्नुवन्ति तदा ते तस्यात्मानं स्थायित्वेन नितरां निर्मलं सम्पादयन्ति ॥१॥
Subject
तत्राद्ये मन्त्रे ब्रह्मानन्दरूपान् सोमान् वर्णयति।
Footnote
१. ऋ० ९।६४।२८।