Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 653

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
स꣡ नः꣢ पवस्व꣣ शं꣢꣫ गवे꣣ शं꣡ जना꣢꣯य꣣ श꣡मर्व꣢꣯ते । श꣡ꣳ रा꣢ज꣣न्नो꣡ष꣢धीभ्यः ॥६५३॥

सः꣢ । नः꣣ । पवस्व । श꣢म् । ग꣡वे꣢꣯ । शम् । ज꣡नाय꣢꣯ । शम् । अ꣡र्वते꣢꣯ । शम् । रा꣣जन् । ओ꣡ष꣢꣯धीभ्यः । ओ꣡ष꣢꣯ । धी꣣भ्यः ॥६५३॥

Mantra without Swara
स नः पवस्व शं गवे शं जनाय शमर्वते । शꣳ राजन्नोषधीभ्यः ॥

सः । नः । पवस्व । शम् । गवे । शम् । जनाय । शम् । अर्वते । शम् । राजन् । ओषधीभ्यः । ओष । धीभ्यः ॥६५३॥

Samveda - Mantra Number : 653
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (राजन्) विश्वसम्राट् परमात्मन् ! (सः) प्रसिद्धः त्वम् (नः) अस्माकम् (गवे) धेनवे, वाचे, इन्द्रियादिकाय वा (शम्) कल्याणम्, (जनाय) मातापितृपुत्रपौत्रकलत्रसेवकादिजनाय (शम्) कल्याणम्, (अर्वते) अश्वाय, प्राणाय, शत्रुहिंसकाय वीराय वा (शम्) कल्याणम्, (ओषधीभ्यः) व्रीहियवगोधूमलतागुल्मवृक्षवनस्पत्यादिभ्यो दोषनिवारिकाभ्यः शुद्धचित्तवृत्तिभ्यो वा (शम्) कल्याणम् (पवस्व) प्रक्षारय। [ओषधय ओषद् धयन्तीति वा, ओषत्येना धयन्तीति वा, दोषं धयन्तीति वा। निरु० ९।२७] ॥३॥
Essence
परमेश्वरोपासनेन सर्वैर्दैहिकं मानसमात्मिकं पारिवारिकं सामाजिकं राष्ट्रियं च कल्याणं प्राप्तुं योग्यम् ॥३॥
Subject
अथ परमेश्वरः प्रार्थ्यते।
Footnote
१. ऋ० ९।११।३।