Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 652

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣भि꣢ ते꣣ म꣡धु꣢ना꣣ प꣡योऽथ꣢꣯र्वाणो अशिश्रयुः । दे꣣वं꣢ दे꣣वा꣡य꣢ देव꣣यु꣢ ॥६५२॥

अ꣡भि꣢ । ते꣣ । म꣡धु꣢꣯ना । प꣡यः꣢꣯ । अ꣡थ꣢꣯र्वाणः । अ꣣शिश्रयुः । देव꣢म् । दे꣣वा꣡य꣢ । दे꣣व꣢यु ॥६५२॥

Mantra without Swara
अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । देवं देवाय देवयु ॥

अभि । ते । मधुना । पयः । अथर्वाणः । अशिश्रयुः । देवम् । देवाय । देवयु ॥६५२॥

Samveda - Mantra Number : 652
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम परमात्मन् ! (अथर्वाणः) अचञ्चलचित्तवृत्तयः उपासका जनाः। [अथर्वाणोऽथर्वणवन्तः। थर्वतिश्चरतिकर्मा, तत्प्रतिषेधः इति निरुक्तम् ११।१९।] (ते) तव (मधुना) मधुरेण आनन्दरसेन (पयः) स्वकीयं विशुद्धं ज्ञानकर्मरूपं दुग्धम् (अभि अशिश्रयुः२) संमिश्रयन्ति। (देवयु३) देवं दिव्यगुणयुक्तं परमेश्वरम् आत्मनः कामयते इति देवयुः, सर्वोऽपि भगवद्भक्तो जनः। [देवयुशब्दात् प्रथमैकवचने ‘सुपां सुलुक्०’ अ० ७.१.३९ इति सोर्लुक्।] (देवाय) दिव्यप्रकाशप्राप्तये (देवम्) प्रकाशकं त्वाम् उपास्ते इति शेषः ॥२॥ अत्र ‘देवाय देवयु’ इति छेकानुप्रासः, ‘देवं, देवा, देव’ इति च वृत्त्यनुप्रासः। उभयोरेकाश्रयानुप्रवेशरूपः सङ्करः ॥२॥
Essence
ज्ञानकर्मसमन्वितैव भक्तिः सर्वजनानां कल्याणकरी जायते ॥२॥
Subject
अथ ब्रह्मानन्दरसस्योपादेयत्वमाह।
Footnote
१. ऋ० ९।११।२। २. श्रिञ् सेवायाम् भ्वादिः। “अत्र लङि प्रथमस्य बहुवचने विकरणव्यत्ययेन शपः स्थाने श्लुः ‘सिजभ्यस्त०’ इति झेर्जुस्, ‘जुसि च’ इति गुणः” इति ऋ० १।९२।२ भाष्ये द०। ३. सत्यव्रतसामश्रमिसम्पादिते सायणभाष्ये वैदिकयन्त्रालयमुद्रिते च सामवेदे ‘देवयुः’ इति सविसर्गः पाठः। सामपदपाठेषु अन्यासु च सामसंहितासु ऋग्वेदवद् विसर्गरहित एव पाठो दृश्यते।