Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 651

1875 Mantra
Devata- पवमानः सोमः Rishi- असितः काश्यपो देवलो वा Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣡पा꣢स्मै गायता नरः꣣ प꣡व꣢माना꣣ये꣡न्द꣢वे । अ꣣भि꣢ दे꣣वा꣡ꣳ इय꣢꣯क्षते ॥६५१॥

उ꣡प꣢꣯ । अ꣣स्मै । गायत । नरः । प꣡व꣢꣯मानाय । इ꣡न्द꣢꣯वे । अ꣣भि꣢ । दे꣣वा꣢न् । इ꣡य꣢꣯क्षते ॥६५१॥

Mantra without Swara
उपास्मै गायता नरः पवमानायेन्दवे । अभि देवाꣳ इयक्षते ॥

उप । अस्मै । गायत । नरः । पवमानाय । इन्दवे । अभि । देवान् । इयक्षते ॥६५१॥

Samveda - Mantra Number : 651
(Kauthum) उत्तरार्चिकः: » Prapathak » 1; Ardh Prapathak » 1;
(Rananiya) उत्तरार्चिकः: » Adhyay » 1; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (नरः) मनुष्याः ! यूयम् (देवान्) अहिंसासत्यन्यायादिदिव्यगुणान् (अभि इयक्षते) प्रदातुमिच्छते [यजतेर्दानार्थात् सनि शतरि रूपम्। यियक्षते इति प्राप्ते अभ्यासयकारलोपश्छान्दसः] (अस्मै) एतस्मै (पवमानाय) पवित्रताप्रदायिने (इन्दवे) आनन्दरसेन क्लेदकाय सोमाख्याय परमात्मने [उनत्ति क्लेदयति उपासकान् स्वरसेन यः स इन्दुः। ‘उन्देरिच्चादेः’ उ० १.१२ इति उन्दी क्लेदने धातोः उः प्रत्ययः धातोरुकारस्येकारादेशश्च।] (उपगायत) सामीप्येन स्तुतिगीतानि उच्चारयत ॥१॥२
Essence
सर्वैः स्त्रीपुरुषैर्जगदीशस्य स्तुतिगीतानि कीर्तयित्वा ततः प्रेरणां प्राप्यात्मोन्नतिर्विधेया ॥१॥
Subject
तत्रादौ परमात्मानं प्रति मनुष्याणां कर्तव्यं वर्णयति।
Footnote
१. ऋ० ९।११।१, य० ३३।६२ ऋषिः देवलः, देवता सोमः। साम० ७६३। २. यजुर्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं गुरुशिष्यविषये व्याख्यातः।