Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 650

1875 Mantra
Devata- लिङ्गोक्ताः Rishi- प्रजापतिः Chhand- पदपङ्क्तिः Swara- पञ्चमः
Mantra with Swara
ए꣣वा꣢ह्येऽ३ऽ३ऽ३व꣡ । ए꣣वा꣡ ह्य꣢ग्ने । ए꣣वा꣡ही꣢न्द्र । ए꣣वा꣡ हि पू꣢꣯षन् । ए꣣वा꣡ हि दे꣢꣯वाः ॐ ए꣣वा꣡हि दे꣢꣯वाः ॥६५०

ए꣣व꣢ । हि । ए꣣व꣢ । ए꣢व । हि । अ꣣ग्ने । एव꣢ । हि । इ꣣न्द्र । एव꣢ । हि । पू꣣षन् । एव꣢ । हि । दे꣣वाः । ॐ ए꣣वा꣡हिदे꣢꣯वाः ॥६५०॥

Mantra without Swara
एवाह्येऽ३ऽ३ऽ३व । एवा ह्यग्ने । एवाहीन्द्र । एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥६५०

एव । हि । एव । एव । हि । अग्ने । एव । हि । इन्द्र । एव । हि । पूषन् । एव । हि । देवाः । ॐ एवाहिदेवाः ॥६५०॥

Samveda - Mantra Number : 650

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमेश्वर ! (एव हि एव) एवं खलु एवम्, सत्यमेव त्वं पूर्वोक्तगुणविशिष्टोऽसीति भावः ॥ हे (अग्ने) अग्रनायक इन्द्र परमात्मन् ! (एव हि) एवमेव खलु, सत्यमेव त्वम् उक्तगुणविशिष्टोऽसि ॥ हे (इन्द्र) परमैश्वर्यवन्, रिपुविदारक, विद्याविवेकादिप्रकाशक जगदीश्वर ! (एव हि) एवमेव किल, सत्यमेव (त्वम्) उक्तगुणविशिष्टोऽसि ॥ हे (पूषन्) परिपोषक इन्द्र जगत्पते ! (एव हि) एवं खलु, सत्यमेव त्वम् उक्तगुणविशिष्टोऽसि ॥ हे (देवाः) इन्द्राख्यपरमेश्वराधीनाः दिव्यगुणविशिष्टा विद्वांसः ! (एव हि) सत्यं खलु यूयम् इन्द्रस्य प्रजाः स्थ ॥ (एवा) संहितायां ‘निपातस्य च’ अ० ६।३।१३६ इति दीर्घः। (पूषन्) अथ यद् रश्मिपोषं पुष्यति तत् पूषा भवति, निरु० १२।१७। (देवाः) ‘अथ यदिन्द्रे सर्वा देवतास्तत्स्थानाः, तस्मादाहुः इन्द्रः सर्वा देवताः।’ श० १।६।३।२२ ॥१०॥
Essence
इन्द्रे परमात्मनि सत्यमेव मघवत्व-शचीपतित्व-प्रचेतनत्व- शक्रत्व-मंहिष्ठत्व-शविष्ठत्व-वज्रित्व-जेतृत्वप्रभृतयो वेदोक्ता गुणाः सन्ति, ये सर्वैरनुकरणीयाः ॥१०॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालराम-भगवतीदेवी- तनयेन हरिद्वारीयगुरुकुलकाङ्गड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य- भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्येमहा- नाम्न्यार्चिकः समाप्तिमगात् ॥ वेदवेदखनेत्रेऽब्देपौषेमासिसिते दले । द्वादश्यां गुरुवारे च व्याख्येयं पूर्तिमागता ॥
Subject
अथ पुरीषपदैः परमात्मनः स्वरूपमाह। इमानि पञ्च पुरीषपदानीत्युच्यन्ते। एतेषां देवता इन्द्र एव, ‘ऐन्द्रं हि पुरीषम्। श० ८।७।३।७’ इति स्मरणात्। इन्द्रस्य पूर्णताद्योतकानि पदानीमानि, तस्मात् पुरीषपदानि। ‘पुरीषं पृणातेः पूरयतेर्वा’ इति हि निरुक्तम् (२।२२)।