Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 65

1875 Mantra
Devata- अग्निः Rishi- बृहदुक्थो वामदेव्यः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
इ꣣दं꣢ त꣣ ए꣡कं꣢ प꣣र꣡ उ꣢ त꣣ ए꣡कं꣢ तृ꣣ती꣡ये꣢न꣣ ज्यो꣡ति꣢षा꣣ सं꣡ वि꣢शस्व । सं꣣वे꣡श꣢नस्त꣣न्वे꣢३꣱चा꣡रु꣢रेधि प्रि꣣यो꣢ दे꣣वा꣡नां꣢ पर꣣मे꣢ ज꣣नि꣡त्रे꣢ ॥६५॥

इ꣣द꣢म् । ते꣣ । ए꣡क꣢꣯म् । प꣣रः꣢ । उ꣣ । ते । ए꣡क꣢꣯म् । तृ꣣ती꣡ये꣢न । ज्यो꣡ति꣢꣯षा । सम् । वि꣣शस्व । संवे꣡श꣢नः । स꣣म् । वे꣡श꣢꣯नः । त꣡न्वे꣢꣯ । चा꣡रुः꣢꣯ । ए꣣धि । प्रियः꣢ । दे꣣वा꣡ना꣢म् । प꣣रमे꣢ । ज꣣नि꣡त्रे꣢ ॥६५॥

Mantra without Swara
इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशनस्तन्वे३चारुरेधि प्रियो देवानां परमे जनित्रे ॥

इदम् । ते । एकम् । परः । उ । ते । एकम् । तृतीयेन । ज्योतिषा । सम् । विशस्व । संवेशनः । सम् । वेशनः । तन्वे । चारुः । एधि । प्रियः । देवानाम् । परमे । जनित्रे ॥६५॥

Samveda - Mantra Number : 65
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। हे अग्ने परमात्मन् ! (इदम्) मत्समीपे विद्यमानं पार्थिवाग्निरूपम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) किंच (परः) परस्ताद् द्युलोके विद्यमानं सूर्यरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वं तद्भिन्नेन (तृतीयेन ज्योतिषा) तृतीयेन निजेन ज्योतिर्मयस्वरूपेण (संविशस्व) मदात्मनि प्रविष्टो भव। (परमे) श्रेष्ठे (जनित्रे) त्वदाविर्भावस्थाने मदात्मनि। जन्यते अत्र इति जनित्रम्। जनी प्रादुर्भावे धातोः अधिकरणे औणादिकः इत्रप्रत्ययः। (संवेशनः) प्रवेशकर्ता त्वम्। सं पूर्वाद् विश प्रवेशने धातोः कर्तरि युच्। (तन्वे) अन्नमयप्राणमयमनोमय- विज्ञानमयानन्दमयकोशसहिताय शरीराय (चारुः) हितकरः, (देवानाम्) इन्द्रियमनोबुद्ध्यादीनाम् (प्रियः) प्रियकरश्च (एधि) भव। अथ द्वितीयः—जीवात्मपरः। हे (अग्ने) जीवात्मन् ! (इदम्) चक्षुरादीन्द्रियात्मकम् (ते) तव (एकम्) एकं ज्योतिः अस्ति। (उ) अथ च (परः) ततः परस्ताद् विद्यमानं मनोरूपम् (ते) तव (एकम्) द्वितीयं ज्योतिः अस्ति। त्वम् (तृतीयेन) परमात्माख्येन (ज्योतिषा) अर्चिषा (संविशस्व) संगच्छस्व२। (परमे) सर्वोत्कृष्टे (जनित्रे) जनयितरि परमात्मनि। अत्र जनी धातोः कर्तरि इत्र प्रत्ययः। (संवेशनः) संगतः त्वम् (तन्वे) स्वाश्रयभूताय देहसंघाताय (चारुः) कल्याणकरः, (देवानाम्) दिव्यगुणानां (प्रियः) प्रेमास्पदं च (एधि) भव ॥३॥३ अत्र श्लेषालङ्कारः ॥३॥
Essence
पार्थिवाग्नौ सूर्याग्नौ च परमात्मन एव ज्योतिः प्रदीप्यते, यथोक्तम्—अ॒ग्नाव॒ग्निश्चर॑ति॒ प्रवि॑ष्टः॒। अथ० ४।३९।९, यो॒ऽसावा॑दि॒त्ये पुरु॑षः॒ सोऽसाव॒हम्। य० ४०।१७, तस्य भासा सर्वमिदं विभाति। कठ० ५।१५ इति। अतस्तज्जोतिर्द्वयमपि परमात्मन एव। परं तस्य वास्तविकं तृतीयं ज्योतिस्तदीयं स्वात्मनिष्ठं स्वाभाविकं तेज एव। तेनैव तेजसा भक्तजनानामात्मानं प्रविश्य स तेषां कल्याणं करोति, शरीरप्राणमनोबुद्ध्यादीनां च हितं सम्पादयति। अतस्तस्य तृतीयं ज्योतिराप्तुं योगाभ्यासविधिना सर्वैः प्रयत्नोऽनुष्ठेयः। मन्त्रस्य द्वितीयेऽर्थे जीवात्मा समुद्बोधितः—हे जीवात्मन् ! एकं ते ज्योतिः चक्षुः-श्रोत्रादिकम्, द्वितीयं ज्योतिर्मनः ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः। ऋ० ६।९।५ इति श्रुतेः। एतज्ज्योतिर्द्वयं तव साधनरूपमेव, साध्यरूपं ज्योतिस्तु तृतीयं परमात्मज्योतिरस्ति। अतस्तदेवाधिगन्तुं प्राणपणेन यतस्व ॥३॥
Subject
अथ परमात्मनं जीवात्मानं वाभिलक्ष्योच्यते।
Footnote
१. ऋ १०।५६।१ देवता विश्वेदेवाः, संवेशने तन्वश्चारु इति पाठः। अथ० १८।३।७ ऋषिः अथर्वा, देवता यमः, संवेशने तन्वा३ चारुरेधि प्रियो देवानां परमे सधस्थे इति पाठः। २. संविशस्व संगच्छस्व—इति भ०, सा०। ३. इदं ते तव एकं ज्योतिः वैद्युताख्यम्। परः परम् उत्कृष्टमित्यर्थः। उ इति पादपूरणः। ते तव एकम् आदित्याख्यम्। तृतीयेन ज्योतिषा पार्थिवेन अग्न्याख्येन संविशस्व। क्व पुनः संविशानि? उच्यते संवेशनः तन्वे। संविश्यते अस्मिन् इति संवेशनं वेद्याख्यं स्थानं, तस्मिन्नित्यर्थः। तन्वः शरीरस्य। संविश्य चारुः एधि शोभनो भव। प्रियः देवानाम्..... परमे उत्कृष्टे जनित्रे, जन्यतेऽस्मिन्निति जनित्रं कर्म यात्रारूपं, तस्मिन्नित्यर्थः। अथवा जन्मैव जनित्रम्, परमे जन्मनि वृक्षादौ यज्जन्म तस्मिन्नित्यर्थः—इति वि०। सायणस्त्वेवं व्याचष्टे—“एतया बृवदुक्थो वाजिनं नाम स्वपुत्रं संविशस्व मृतं वदति—हे मृतपुत्र, ते तव इदं ज्योतिः अग्न्याख्यम् एकम् एकोंऽशः। अतः ते तव देहगताग्न्यंशेन बाह्यम् अग्निं संगच्छस्व। तथा परः ऊ अन्योऽपि ते तव एकं वाय्वाख्योंऽशः, तेन च प्राणवाय्वाख्येन अंशेन बाह्यं वायुं संविशस्व।.... तथा तृतीयेन ज्योतिषा आदित्याख्येन तेजसा तवात्मना संविशस्व।..... तन्वे तनवे पुनः शरीरग्रहणाय चारुः कल्याणो भूत्वा तस्मिन् सूर्ये संवेशनः सम्यक् प्रवेष्टा” इत्यादि। परम् ऋगियम् अन्त्येष्टिकर्मणि चेद् विनियुज्येत तदा तादृशेऽर्थे संभवत्यपि बृवदुक्थो नाम ऋषिः वाजिनं नाम मृतं स्वपुत्रं वदतीत्यस्य इतिहासस्य कल्पनमनुचितमेव, वेदेषु लौकिकेतिहासस्याभावात्।