Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 649

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
प्र꣣भो꣢꣯ जन꣢꣯स्य वृत्रह꣣न्त्स꣡मर्ये꣢षु ब्रवावहै । शू꣢रो꣣ यो꣢꣫ गोषु꣣ ग꣡च्छ꣢ति꣣ स꣡खा꣢ सु꣣शे꣢वो꣣ अ꣡द्व꣢युः ॥६४९

प्र꣣भो꣢ । प्र꣣ । भो꣢ । ज꣡न꣢꣯स्य । वृ꣣त्रहन् । वृत्र । हन् । स꣢म् । अ꣣र्ये꣡षु꣢ । ब्र꣣वावहै । शू꣡रः꣢꣯ । यः । गो꣡षु꣢꣯ । ग꣡च्छ꣢꣯ति । स꣡खा꣢꣯ । स । खा꣣ । सुशे꣡वः꣢ । सु꣣ । शे꣡वः꣢꣯ । अ꣡द्व꣢꣯युः । अ । द्वयुः꣣ ॥६४९॥

Mantra without Swara
प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै । शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥६४९

प्रभो । प्र । भो । जनस्य । वृत्रहन् । वृत्र । हन् । सम् । अर्येषु । ब्रवावहै । शूरः । यः । गोषु । गच्छति । सखा । स । खा । सुशेवः । सु । शेवः । अद्वयुः । अ । द्वयुः ॥६४९॥

Samveda - Mantra Number : 649

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (प्रभो) जगदीश्वर ! हे (जनस्य) उपासकस्य मम (वृत्रहन्) पापहन्तः ! आयाहि, अहं च त्वं च (अर्येषु१) प्राप्तव्येषु आध्यात्मिकेषु ऐश्वर्येषु, तानि विषयीकृत्य इति भावः, अत्र विषयसप्तमी, (सं ब्रवावहै) संवादं कुर्याव, कानि कानि ऐश्वर्याणि मया प्राप्तव्यानि त्वया च देयानि सन्तीति संलपेव, (शूरः) विघ्नानां वधे पराक्रमवान् (यः) यो भवान् (गोषु) स्तोतृषु, तेषां हृदयेषु (गच्छति) व्रजति, यश्च भवान् (सखा) स्तोतॄणां सुहृत्, (सुशेवः) उत्कृष्टसुखप्रदः, (अद्वयुः) प्रत्यक्षमन्यत् परोक्षमन्यद् इति द्विविधाचरणवर्जितः, सदा हितकर एव भवति। (गोषु) गौः स्तोतृनाम, निघं० ३।१६। (सुशेवः) शेवः सुखनाम, निघं० ३।६ ॥९॥
Essence
उपासकानां हार्दिकं प्रेम दृष्ट्वा तैः संवादमिव कुर्वन् परमेश्वरः तेषां सखा, विघ्नहर्ता, मोक्षानन्दप्रदश्च जायते ॥९॥
Subject
अथोपासकः परमात्मना संवादं कुरुते।
Footnote
१. अर्येषु प्राप्तव्येषु यज्ञादिषु कर्मसु—इति सा०। अत्र स्वामिवैश्यभिन्नेऽप्यर्थे गत्यर्थाद् ऋधातोः यत् प्रत्ययः।