Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 648

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
पू꣡र्व꣢स्य꣣ य꣡त्ते꣢ अद्रिवो꣣ꣳऽशु꣢꣯र्मदा꣢꣯य । सु꣣म्न꣡ आ धे꣢꣯हि नो वसो पू꣣र्तिः꣡ श꣢विष्ठ शस्यते । व꣣शी꣢꣫ हि श꣣क्रो꣢ नू꣣नं꣡ तन्नव्य꣢꣯ꣳ सं꣣न्य꣡से꣢ ॥६४८

पू꣡र्व꣢꣯स्य । यत् । ते꣣ । अद्रिवः । अ । द्रिवः । अँशुः꣢ । म꣡दा꣢꣯य । सु꣣म्ने꣢ । आ । धे꣣हि । नः । वसो । पूर्तिः꣢ । श꣣विष्ठ । शस्यते । व꣣शी꣢ । हि । श꣣क्रः꣢ । नू꣣न꣢म् । तत् । न꣡व्य꣢꣯म् । सं꣣न्य꣡से꣢ ॥६४८॥

Mantra without Swara
पूर्वस्य यत्ते अद्रिवोꣳऽशुर्मदाय । सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते । वशी हि शक्रो नूनं तन्नव्यꣳ संन्यसे ॥६४८

पूर्वस्य । यत् । ते । अद्रिवः । अ । द्रिवः । अँशुः । मदाय । सुम्ने । आ । धेहि । नः । वसो । पूर्तिः । शविष्ठ । शस्यते । वशी । हि । शक्रः । नूनम् । तत् । नव्यम् । संन्यसे ॥६४८॥

Samveda - Mantra Number : 648

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः) मेघानां स्वामिन् धर्ममेघसमाधौ सहायक वा परमेश्वर ! (यत्) यस्मात् (पूर्वस्य) श्रेष्ठस्य (ते) तव (अंशुः) तेजोरश्मिः (मदाय) आनन्दाय भवति, तस्मात्, हे (वसो) निवासक ! (नः) अस्मान् (सुम्ने) सुखे, मोक्षानन्दे (आ धेहि) आस्थापय। हे (शविष्ठ) बलिष्ठ परमात्मन् ! (पूर्तिः) त्वज्जनिता परिपूर्णता (शस्यते) सर्वैः प्रशस्यते। (शक्रः) सर्वशक्तिमान् त्वम् (नूनम्) अद्य (वशी हि) मम वशकर्ता किल सञ्जातः, (तत्) तस्मात् त्वद्वशवर्ती अहम् (नव्यम्) नूतनत्वेन आभासमानं पुत्रैषणावित्तैषणालोकैषणारूपं लौकिकचाकचक्यम् (संन्यसे१) परित्यजामि, परित्यज्य संन्यासाश्रमं प्रविशामीत्यर्थः। तत्र च (नव्यम्) स्तुत्यम् इन्द्रं परमेश्वरम् (संन्यसे) सम्यग् हृदि धारयामि इति द्वितीयोऽपि श्लेषमूलोऽर्थोऽध्यवसेयः। (संन्यसे) इत्यत्र हि योगात् ‘छन्दस्यनेकमपि साकाङ्क्षम्’ अ० ८।१।३५ इति निघातप्रतिषेधः। (अद्रिवः) अद्रिः मेघनाम। निघं० १।१० ॥८॥
Essence
आपातरमणीयाः खलु भोगाः। धन्यास्ते ये तान् परिहृत्य संन्यासाश्रमं प्रविश्य निष्कामलोकसेवाव्रतमङ्गीकृत्य ब्रह्मणि लीना भवन्ति ॥८॥
Subject
अथ संन्यासाश्रमं प्रविविक्षुराह।
Footnote
१. नव्यं नूतनं वलीपलितादिलक्षणेन पुराणत्वेन वर्जितं तमिन्द्रं त्वाम् नूनम् अवश्यम् संन्यसे अहं सम्यक् नितरां प्रक्षिपामि, अस्मिन्, कर्मणि हविषो भोक्तृत्वेन स्थापयामीत्यर्थः। यद्वा, हे इन्द्र, नव्यमिति क्रियाविशेषणम्, नूतनम् अन्यैरक्षतपूर्वं यथा भवति तथा नूनम् इदानीं संन्यसे अस्माभिः सेव्यसे, षण सम्भक्तौ, यकि रूपम्—इति सायणः।