Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 647

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
इ꣢न्द्रं꣣ ध꣡न꣢स्य꣣ सा꣡त꣢ये हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣢षः꣣ स꣡ नः꣢ स्वर्ष꣣द꣢ति꣣ द्वि꣡षः꣢ ॥६४७

इ꣡न्द्र꣢꣯म् । ध꣡न꣢꣯स्य । सा꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । सः꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ ॥६४७॥

Mantra without Swara
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥६४७

इन्द्रम् । धनस्य । सातये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । सः । नः । स्वर्षत् । अति । द्विषः । सः । नः । स्वर्षत् । अति । द्विषः ॥६४७॥

Samveda - Mantra Number : 647

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(इन्द्रम्) शूरं परमैश्वर्यशालिनं परमेश्वरम्, वयं योगाभ्यासिनः (धनस्य) विवेकख्यातिरूपस्य ऐश्वर्यस्य (सातये) प्राप्तये (हवामहे) आह्वयामः। कीदृशं परमेश्वरम् ? (जेतारम्) शत्रूणां विघ्नानां च विजेतारम्, किञ्च (अपराजितम्) कोटिसंख्यकैरपि शत्रुभिर्विघ्नैश्च अपराभूतम्। (सः) विजेता परमेश्वरः (नः) अस्मान् (द्विषः) अविद्यास्मितारागद्वेषाभिनिवेशेभ्यः पञ्चक्लेशेभ्यः (अति स्वर्षत्) अतिपारयेत्, (सः) अपराजितः परमेश्वरः (नः) अस्मान् (द्विषः) व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शना- लब्धभूमिकत्वानव स्थितत्वात्मकचित्तविक्षेपरूपेभ्यो योगमार्गान्तरायेभ्यः (अति स्वर्षत्) अतिपारयेत् ॥७॥
Essence
परमेश्वरस्यैव कृपया योगाभ्यासिनो जना योगविघ्नान् विजित्य विवेकख्यात्या कैवल्यमधिगन्तुमर्हन्ति ॥७॥
Subject
अथ पुनरपि परमात्मानमाह्वयति।