Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 646

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
ई꣢शे꣣ हि꣢ श꣣क्र꣢꣫स्तमू꣣त꣡ये꣢ हवामहे꣣ जे꣡ता꣢र꣣म꣡प꣢राजितम् । स꣡ नः꣢ स्व꣣र्ष꣢द꣣ति द्वि꣢षः꣣ क्र꣢तु꣣श्छ꣡न्द꣢ ऋ꣣तं꣢ बृ꣣ह꣢त् ॥६४६

ई꣡शे꣢꣯ । हि । श꣣क्रः꣢ । तम् । ऊ꣣त꣡ये꣢ । ह꣣वामहे । जे꣡ता꣢꣯रम् । अ꣡प꣢꣯राजितम् । अ । प꣣राजितम् । स꣢ । नः꣣ । स्वर्षत् । अ꣡ति꣢꣯ । द्वि꣡षः꣢꣯ । क्र꣡तुः꣢꣯ । छ꣡न्दः꣢꣯ । ऋ꣣तम् । बृ꣣ह꣢त् ॥६४६॥

Mantra without Swara
ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितम् । स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६

ईशे । हि । शक्रः । तम् । ऊतये । हवामहे । जेतारम् । अपराजितम् । अ । पराजितम् । स । नः । स्वर्षत् । अति । द्विषः । क्रतुः । छन्दः । ऋतम् । बृहत् ॥६४६॥

Samveda - Mantra Number : 646

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(शक्रः) शक्तिशाली इन्द्रः परमेश्वरः (हि) निश्चयेन (ईशे) ईष्टे, सकलजगदधीश्वरोऽस्ति। (तम्) परमेश्वरम्, वयम् (ऊतये) रक्षायै (हवामहे) आह्वयामः। कीदृशं परमेश्वरम् ? (जेतारम्) सकलरिपुविजयिनम्, किञ्च (अपराजितम्) स्वयं केनापि अविजितम्। (सः) परमेश्वरः (नः) अस्मान् (द्विषः) आन्तराद् बाह्याद् वा शत्रोः (अति स्वर्षत्) अतिपारयतु। (क्रतुः) प्रज्ञानं, कर्म, शिवसंकल्पः, यज्ञश्च, (छन्दः) गायत्र्यादीनि छन्दांसि, (ऋतम्) सत्यम्, (बृहत्) बृहदाख्यं साम च, अस्माकमुपकारकाणि सन्तु ॥ त्वामिद्धि हवामहे (साम० २३४) इत्यस्यामृचि अध्यूढं बृहदित्युच्यते ॥ (ईशे) ‘ईष्टे’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तकारलोपः। (स्वर्षत्) स्वरतिः गतिकर्मा। निघं० २।१४ ॥६॥
Essence
विजेतारमपराजितं परमात्मानमाश्रित्य तदुपासका अपि जेतारोऽपराजिताश्च जायन्ते ॥६॥
Subject
अथ परमात्मानमाह्वयति।