Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 645

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
यो꣢꣯ मꣳहि꣢꣯ष्ठो मघोनामꣳशुर्न शोचिः । चि꣡कि꣢त्वो अ꣣भि꣡ नो꣢ न꣣ये꣡न्द्रो꣢ विदे꣢꣯ तमु꣢꣯ स्तुहि ॥६४५

यः꣢ । मँ꣡हि꣢꣯ष्ठः । म꣣घो꣡ना꣢म् । अँ꣣शुः꣢ । न । शो꣣चिः꣢ । चि꣡कि꣢꣯त्वः । अ꣣भि꣢ । नः꣣ । नय । इ꣡न्द्रः꣢꣯ । वि꣣दे꣢ । तम् । उ꣣ । स्तुहि ॥६४५॥

Mantra without Swara
यो मꣳहिष्ठो मघोनामꣳशुर्न शोचिः । चिकित्वो अभि नो नयेन्द्रो विदे तमु स्तुहि ॥६४५

यः । मँहिष्ठः । मघोनाम् । अँशुः । न । शोचिः । चिकित्वः । अभि । नः । नय । इन्द्रः । विदे । तम् । उ । स्तुहि ॥६४५॥

Samveda - Mantra Number : 645

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) यस्त्वम्, (मघोनाम्) धनवताम् (मंहिष्ठः) दातृतमः असि, किञ्च (अंशुः न) सूर्यरश्मिः इव (शोचिः) शोचिष्मान् असि, सः हे (चिकित्वः) ज्ञानवन्, सदा जागरूक परमात्मन् ! त्वम् (नः अभि) अस्मान् प्रति (नय) दातृत्वतेजोज्ञानजागरूकत्वादिकं प्रापय। हे मनुष्य ! (इन्द्रः) परमेश्वरः (विदे) उपकर्तुं जानाति, (तम् उ) तमेव (स्तुहि) स्तुत्या सभाजय ॥ (शोचिः) अत्र मत्वर्थीयस्य लोपः। (चिकित्वः) कित ज्ञाने, लिटः क्वसुः सम्बुद्धौ ‘मतुवसो रु सम्बुद्धौ छन्दसि’ अ० ८।३।१ इति रुत्वम्। (विदे) विद ज्ञाने, आत्मनेपदं छान्दसम्, ‘वित्ते’ इति प्राप्ते ‘लोपस्त आत्मनेपदेषु’ अ० ७।१।४१ इति तलोपः ॥५॥ अत्र ‘अंशुर्न शोचिः’ इत्युपमालङ्कारः ॥५॥
Essence
यो जगदीश्वरः परमो दाता, परमस्तेजस्वी, परमो विद्वान्, परमो जागरूकः, परमः परोपकर्ता च विद्यते तमुपास्य सर्वैर्दातृभिस्तेजस्विभिर्विद्भिर्जागरूकैः परोपकर्तृभिश्च भाव्यम् ॥५॥
Subject
अथ परमात्मानमुपवर्ण्य तत्स्तवनाय जनान् प्रेरयति।