Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 643

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
ए꣣वा꣢꣫ हि श꣣क्रो꣢ रा꣣ये꣡ वाजा꣢꣯य वज्रिवः । श꣡वि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢से꣣ म꣡ꣳहि꣢ष्ठ वज्रिन्नृ꣣ञ्ज꣢स꣣ । आ꣡ या꣢हि꣣ पि꣢ब꣣ म꣡त्स्व꣢ ॥६४३

ए꣣वा꣢ । हि । श꣣क्रः꣢ । रा꣣ये꣢ । वा꣡जा꣢꣯य । व꣣ज्रिवः । श꣡वि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । मँ꣡हि꣢꣯ष्ठ । व꣣ज्रिन् । ऋञ्ज꣡से꣢ । आ । या꣣हि । पि꣡ब꣢꣯ । म꣡त्स्व꣢꣯ ॥६४३॥

Mantra without Swara
एवा हि शक्रो राये वाजाय वज्रिवः । शविष्ठ वज्रिन्नृञ्जसे मꣳहिष्ठ वज्रिन्नृञ्जस । आ याहि पिब मत्स्व ॥६४३

एवा । हि । शक्रः । राये । वाजाय । वज्रिवः । शविष्ठ । वज्रिन् । ऋञ्जसे । मँहिष्ठ । वज्रिन् । ऋञ्जसे । आ । याहि । पिब । मत्स्व ॥६४३॥

Samveda - Mantra Number : 643

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्र परमैश्वर्यशालिन् परमात्मन् ! त्वम् (एव हि) सत्यमेव (शक्रः) शक्तिमान्, असि इति शेषः। हे (वज्रिवः) वज्रधर इव शत्रुविदारक ! अस्मान् (राये) अध्यात्मसंपदे, (वाजाय) दैहिकात्मिकबलाय च, कुरु। हे (शविष्ठ) बलिष्ठ ! हे (वज्रिन्) पापविदारक ! त्वम् (ऋञ्जसे) अस्मान् सद्गुणालङ्कारैः अलंकुरु। हे (मंहिष्ठ) अतिशयदानशील ! हे (वज्रिन्) ओजस्विन्, त्वम् अस्मान् (ऋञ्जसे) भर्जस्व, परिपाकेन ओजस्विनः कुरु। हे भगवन् ! (आ याहि) आगच्छ, (पिब) अस्माकं श्रद्धारसम् आस्वादय, (मत्स्व) अस्मान् कर्तव्यपरायणान् दृष्ट्वा हृष्टो भव ॥ (ऋञ्जसे) ऋञ्जतिः प्रसाधनकर्मा। निघं० ३।५, ऋजि भर्जने, भ्वादिः, लेटि रूपम्। (मंहिष्ठ), मंहते दानकर्मा। निघं० ३।२०। (वज्रिन्) ओजस्विन्, वज्रो वा ओजः, श० ८।४।१।२० ॥३॥ अत्र ‘ष्ठ वज्रिन्नृञ्जसे’ इत्यस्यावृत्तौ यमकालङ्कारः। ‘वज्रि’ इत्यस्य त्रिश आवृत्तौ वृत्त्यनुप्रासः। आयाहि, पिब, मत्स्व इत्यनेकक्रियाणामेककारकयोगाद् दीपकम् ॥३॥
Essence
यः परमेश्वरः सर्वकर्मक्षमो बलिष्ठस्तेजस्वी दातृतमः पापादीनां हन्ता गुणैरलङ्कर्ता च विद्यते तस्मिन् श्रद्धा सर्वैः कार्या ॥३॥
Subject
अथ परमात्मानं प्रार्थयते।