Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 642

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
आ꣣भि꣢꣫ष्ट्वम꣣भि꣡ष्टि꣢भिः꣣ स्वा꣢ऽ३र्न्ना꣢ꣳशुः । प्र꣡चे꣢तन꣣ प्र꣡चे꣢त꣣ये꣡न्द्र꣢ द्यु꣣म्ना꣡य꣢ न इ꣣षे꣢ ॥६४२

आ꣣भिः । त्वम् । अभिष्टिभिः । स्वः । न । अँ꣣शुः꣢ । प्र꣡चे꣢꣯तन । प्र । चे꣣तन । प्र꣢ । चे꣣तय । इ꣡न्द्र꣢꣯ । द्यु꣣म्ना꣡य꣢ । नः꣢ । इषे꣢ ॥६४२॥

Mantra without Swara
आभिष्ट्वमभिष्टिभिः स्वाऽ३र्न्नाꣳशुः । प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥६४२

आभिः । त्वम् । अभिष्टिभिः । स्वः । न । अँशुः । प्रचेतन । प्र । चेतन । प्र । चेतय । इन्द्र । द्युम्नाय । नः । इषे ॥६४२॥

Samveda - Mantra Number : 642

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे परमात्मन् ! त्वम् (आभिः) एताभिः अस्मत्प्रार्थिताभिः (अभिष्टिभिः) अभीष्टसिद्धिभिः अस्मान् कृतार्थय इति शेषः। त्वम् (स्वः न) आदित्यः इव (अंशुः) अंशुमान् असि। हे (प्रचेतन) प्रकृष्टचैतन्य जागरूक परमेश्वर ! त्वम् अस्मान् (प्रचेतय) प्रकृष्टचेतनान् जागरूकान् कुरु। हे (इन्द्र) परमैश्वर्यशालिन् ! त्वम् (नः) अस्मान् (द्युम्नाय) धनाय, यशसे, तेजसे च, (इषे) अन्नाय, रसाय, विज्ञानाय च, पुरुषार्थिनः कुरु ॥ (अभिष्टिभिः) अभिपूर्वात् इष गतौ धातोः ‘मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः, अ० ३।३।८६’ इति क्तिनि, ‘एमन्नादिषु छन्दसि पररूपं वाच्यम्, अ० ६।१।९४ वा०’ इत्यनेन पररूपम्। (अंशुः) अंशुशब्दस्य अंशुमति लक्षणा, यद्वा मतुबर्थकस्य लुक् ॥२॥ अत्र ‘प्रचेत’ इत्यस्यावृत्तौ यमकालङ्कारः ॥२॥
Essence
परमात्मसंगत्या वयमध्यात्मज्योतिषा प्रकाशमाना जागरूका धनान्नवन्तस्तेजस्विनो यशस्विनो विज्ञानिनश्च भूयास्म ॥२॥
Subject
अथ परमात्मस्तुत्या वयं किं किं प्राप्नुयामेत्याह।