Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 641

1875 Mantra
Devata- इन्द्रः Rishi- प्रजापतिः Chhand- विराडनुष्टुप् Swara- गान्धारः
Mantra with Swara
वि꣣दा꣡ म꣢घवन् वि꣣दा꣢ गा꣣तु꣢꣯मनु꣢꣯शꣳसिषो꣣ दि꣡शः꣢ । शि꣡क्षा꣢ शचीनां पते पूर्वी꣣णां꣡ पुरू꣢वसो ॥६४१

वि꣣दाः꣢ । म꣣घवन् । विदाः꣢ । गा꣣तु꣢म् । अ꣡नु꣢꣯ । शँ꣣सिषः । दि꣡शः꣢꣯ । शि꣡क्षा꣢꣯ । श꣣चीनाम् । पते । पूर्वीणा꣢म् । पु꣣रूवसो । पुरु । वसो ॥६४१॥

Mantra without Swara
विदा मघवन् विदा गातुमनुशꣳसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥६४१

विदाः । मघवन् । विदाः । गातुम् । अनु । शँसिषः । दिशः । शिक्षा । शचीनाम् । पते । पूर्वीणाम् । पुरूवसो । पुरु । वसो ॥६४१॥

Samveda - Mantra Number : 641

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मघवन्) ज्ञानैश्वर्यशालिन् परमात्मन् ! त्वम् (विदाः) अस्मान् विद्धि जानीहि, (गातुम्) अस्माकम् आचरणम् (विदाः) विद्धि जानीहि, (दिशः) गन्तव्यान् मार्गान् (अनुशंसिषः) अनुशाधि। हे (शचीनां पते) प्रज्ञानां कर्मणां च अधिपते ! त्वम् अस्मभ्यम् अपि (शिक्ष) सत्प्रज्ञाः सत्कर्माणि च प्रदेहि। हे (पुरूवसो) प्रभूतधन ! त्वम् (पूर्वीणाम्) श्रेष्ठानां रातीनां, पतिः असि इति शेषः, तासां रातीनाम् अस्मानपि पात्रं कुरु। अत्र पूर्वीशब्देन श्रेष्ठा रातयो गृह्यन्ते, ‘पूर्वीरिन्द्रस्य रातयः।’ ऋ० १।११।३ इति श्रुतेः ॥ (विदाः) विद ज्ञाने, लेटि रूपम्, ‘लेटोऽडाटौ’, अ० ३।४।९४ इत्याडागमः। (अनुशंसिषः), अनुपूर्वात् शंसतेः लेटि रूपम्। (शचीनां पते), शची इति कर्मनाम प्रज्ञानाम च, निघं० २।१, ३।९। (शिक्षा), शिक्षतिः दानकर्मा, निघं० ३।२०। संहितायां ‘द्व्यचोऽतस्तिङः अ० ६।३।१३५ इति दीर्घः ॥१॥ अत्र बहूनां क्रियाणामेककारकयोगाद् दीपकालङ्कारः। ‘विदा’ इत्यस्यावृत्तौ लाटानुप्रासः। ‘पूर्वी, पुरूव’ इत्यत्र छेकानुप्रासः ॥१॥
Essence
परमात्मनः सकाशात् सर्वैर्जनैः कर्तव्यज्ञानं कर्मसम्पत्तिं च प्राप्य पुरुषार्थेन धनान्यर्जयित्वा सदाचारेण समृद्धं जीवनं यापनीयम् ॥१॥
Subject
तत्राद्ये मन्त्रे परमात्मा मार्गनिर्देशार्थं प्रार्थ्यते।