Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 640

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
स꣣प्त꣡ त्वा꣢ ह꣣रि꣢तो꣣ र꣢थे꣣ व꣡ह꣢न्ति देव सूर्य । शो꣣चि꣡ष्के꣢शं विचक्षण ॥६४०॥

स꣣प्त꣢ । त्वा꣣ । हरि꣡तः꣢ । र꣡थे꣢꣯ । व꣡ह꣢꣯न्ति । दे꣣व । सूर्य । शोचि꣡ष्केश꣢म् । शो꣣चिः꣢ । के꣣शम् । विचक्षण । वि । चक्षण ॥६४०॥

Mantra without Swara
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥

सप्त । त्वा । हरितः । रथे । वहन्ति । देव । सूर्य । शोचिष्केशम् । शोचिः । केशम् । विचक्षण । वि । चक्षण ॥६४०॥

Samveda - Mantra Number : 640
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—जीवात्मपक्षे। हे (देव) दिव्यशक्तिसम्पन्न (विचक्षण) विविधज्ञानयुक्त (सूर्य) शरीररथस्य सुष्ठु ईरयितः जीवात्मन् ! (शोचिष्केशम्) तेजोरूपकेशयुक्तम् (त्वा) त्वाम् (सप्त हरितः) मनोबुद्धिज्ञानेन्द्रियरूपाः सप्त अश्वाः (रथे) शरीररूपे स्यन्दने (वहन्ति) धारयन्ति ॥ अथ द्वितीयः—परमात्मपक्षे। हे (देव) दानादिगुणयुक्त दिव्यगुणकर्मस्वभाव (विचक्षण) सर्वद्रष्टः (सूर्य) शुभमार्गे सुष्ठु प्रेरयितः परमात्मन् ! (शोचिष्केशम्) शोचींषि ज्ञानरश्मयः एव केशाः केशस्थानीया यस्य तम् (त्वा) त्वाम् परमपुरुषम् (सप्त हरितः) गायत्र्यादिसप्तछन्दोयुक्ताः सप्तविधा वेदवाचः (रथे) उपासकस्य रमणीये हृदये। रमु क्रीडायाम्, ‘हनिकुषिनीरमिकाशिभ्यः क्थन्। उ० २।२’ इति क्थन्। (वहन्ति) प्रापयन्ति ॥ भौतिकः सूर्योऽपि (देवः) द्युतिमान् द्योतयिता च, (विचक्षणः) विविधानां पदार्थानां दर्शयिता, (शोचिष्केशः) शोचींषि रश्मय एव केशा यस्य तादृशः अस्ति। तं च (सप्त) सप्तसंख्यकाः (हरितः) दिशः। हरितः इति दिङ्नाम। निघं० १।६। (रथे) आकाशरूपे स्यन्दने(वहन्ति) नयन्ति ॥२ अत्र सूर्यस्य शिशुत्वं व्यज्यते दिशां च मातृत्वम्। यथा मातरः शिशुं लघुरथे समुपवेश्य पर्यटनं कारयन्ति, तथैव दिशः सूर्यं गगनरथे समारोप्य पर्यटनं कारयन्ति ॥ दिशश्चतस्रः पञ्च षट् सप्ताष्टौ दशेति विभिन्नसंख्याः श्रूयन्ते। ‘सप्तदिशो नाना सूर्याः’। ऋग्० ९।११४।३ इति श्रुतेः दिशां सप्तसंख्यत्वमपि प्रमाणीभवति। चतस्रः पूर्वाद्याः, अधः ऊर्ध्वा चेति षट्, सप्तमी मध्यभूता ॥१४॥ अत्र श्लेषालङ्कारः। शोचिष्षु केशानामारोपः शाब्दः, सूर्ये च पुरुषारोपः आर्थः, तस्मादेकदेशविवर्ति रूपकम् ॥१४॥
Essence
यथा कञ्चित् प्रतापिनं पुरुषं सप्त अश्वा रथे वहेयुस्तथा रश्मिकेशं सूर्यं पुरुषं दिशो गगनरथे, तेजःकेशं जीवात्मपुरुषम् इन्द्रियाश्वाः शरीरथे, ज्ञानकेशं परमात्मपुरुषं च सप्तच्छन्दांसि योगिनो हृदयरथे वहन्ति ॥१४॥ अत्राग्न्याख्यात् परमेश्वरात् पावित्र्यदुःखविनाशादिप्रार्थनात्, सूर्यनाम्ना च भौतिकसूर्यजीवात्मपरमात्मनां वर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥१४॥ इति षष्ठे प्रपाठके तृतीयार्धे पञ्चमी दशतिः ॥ इति षष्ठाध्याये पञ्चमः खण्डः ॥ समाप्तश्चायं षष्ठः प्रपाठकः षष्ठाध्यायश्च ॥ इति बरेलीमण्डलान्तर्गतफरीदपुरवास्तव्यश्रीमद्गोपालरामभगवती- देवीतनयेन हरिद्वारीयगुरुकुलकांगड़ीविश्वविद्यालयेऽधीतविद्येन विद्यामार्तण्डेन आचार्यरामनाथवेदालङ्कारेण महर्षिदयानन्द- सरस्वतीस्वामिकृतवेदभाष्यशैलीमनुसृत्य विरचिते संस्कृतार्य-भाषाभ्यां समन्विते सुप्रमाणयुक्ते सामवेदभाष्ये आरण्यकंकाण्डं पर्व वा पूर्वार्चिकश्च समाप्तिमगात् ॥
Subject
अथ पुनरपि सूर्यो जीवात्मा परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १।५०।८, अथ० १३।२।२३ ऋषिः ब्रह्मा, देवता रोहित आदित्यः, अथ० २०।४७।२०। अथर्ववेदे उभयत्र ‘विचक्षणम्’ इति पाठः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये वाचकलुप्तोपमालङ्कारमाश्रित्य “हे मनुष्याः ! यथा किरणैर्विना सूर्यस्य दर्शनं न भवति तथैव वेदाभ्यासमन्तरा परमात्मनो दर्शनं नैव जायत इति वेद्यम्” इति विषये व्याख्यातवान्।