Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 64

1875 Mantra
Devata- अग्निः Rishi- उपस्तुतो वार्हिष्टव्यः Chhand- जगती Swara- निषादः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
चि꣣त्र꣢꣫ इच्छिशो꣣स्त꣡रु꣢णस्य व꣣क्ष꣢थो꣣ न꣢꣫ यो मा꣣त꣡रा꣢व꣣न्वे꣢ति꣣ धा꣡त꣢वे । अ꣣नूधा꣡ यदजी꣢꣯जन꣣द꣡धा꣢ चि꣣दा꣢ व꣣व꣡क्ष꣢त्स꣣द्यो꣡ महि꣢꣯ दू꣣त्यां꣢३꣱च꣡र꣢न् ॥६४॥

चि꣣त्रः꣢ । इत् । शि꣡शोः꣢꣯ । त꣡रु꣢꣯णस्य । व꣣क्षथः꣢ । न । यः । मा꣣त꣡रौ꣢ । अ꣣न्वे꣡ति꣣ । अ꣣नु । ए꣡ति꣢꣯ । धा꣣त꣢꣯वे । अ꣣नूधाः꣢ । अ꣣न् । ऊधाः꣢ । यत् । अ꣡जी꣢꣯जनत् । अ꣡ध꣢꣯ । चि꣣त् । आ꣢ । व꣣व꣡क्ष꣢त् । स꣣द्यः꣢ । स꣣ । द्यः꣢ । म꣡हि꣢꣯ । दू꣣त्य꣢꣯म् । च꣡र꣢꣯न् ॥६४॥

Mantra without Swara
चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावन्वेति धातवे । अनूधा यदजीजनदधा चिदा ववक्षत्सद्यो महि दूत्यां३चरन् ॥

चित्रः । इत् । शिशोः । तरुणस्य । वक्षथः । न । यः । मातरौ । अन्वेति । अनु । एति । धातवे । अनूधाः । अन् । ऊधाः । यत् । अजीजनत् । अध । चित् । आ । ववक्षत् । सद्यः । स । द्यः । महि । दूत्यम् । चरन् ॥६४॥

Samveda - Mantra Number : 64
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—यज्ञाग्निपरः। (शिशोः) सद्योजातस्य बालस्यापि (तरुणस्य) युवकस्य, युवकवत् कार्यं कुर्वतः यज्ञाग्नेः (वक्षथः) हविर्वहनगुणः। वह धातोरौणादिकः अथप्रत्ययः, मध्ये सकारागमः। (चित्रः इत्) अद्भुत एवास्ति, (यः) यज्ञाग्निः (धातवे) पयः पातुम्। धेट् पाने धातोः तुमर्थे तवेन् प्रत्ययः। (मातरौ) मातापितृभूते अरणी (न अन्वेति) नानुगच्छति। (अनूधाः) ऊधोरहिता माता अरणिः (यत्) यदा, तं यज्ञाग्निं पुत्रम् (अजीजनत्) जनयति। अत्र लडर्थे लुङ्। (अध चित्) तत्क्षणमेव (सद्यः) सत्वरम् (महि) महत् (दूत्यम्) दूतकर्म। ‘दूतस्य भागकर्मणी।’ अ० ४।४।१२० इति कर्मार्थे यत् प्रत्ययः। (चरन्) कुर्वन् सः (आववक्षत्) हुतं हविः वोढुं प्रारभते। आङ्पूर्वाद् वह धातोः लेटि रूपम्। बहुलं छन्दसि। अ० २।४।७६ इति शपः श्लौ द्वित्वम्। मध्ये अडागमः सिबागमश्च ॥ अथ द्वितीयः—परमात्मपरः। (शिशोः) शिशुवत् प्रियस्य, (तरुणस्य) तरुणवद् महान्ति कर्माणि कुर्वतः परमात्मनः (वक्षथः) जगद्भारवहनगुणः (चित्रः इत्) आश्चर्यकरः एव वर्तते, (यः) परमात्मा, इतरप्राणिवत् (धातवे) पयः पातुम् पुष्टिं प्राप्तुम् इत्यर्थः, (मातरौ) मातापितरौ (न अन्वेति) न अनुप्राप्नोति प्रत्युत स्वयमेव परिपुष्टोऽस्ति। (अनूधाः) ऊधोरहिता प्रकृतिः (यत्) यदा (अजीजनत्) इदं जगद् उत्पादयति (अध चित्) तदनन्तरमेव (सद्यः) झटिति (महि) महत् (दूत्यम्) दूतकर्म (चरन्) आचरन्, स परमात्मा (आ ववक्षत्) जगद्भारं वोढुं प्रारभते ॥२॥ अत्र कोऽसौ यः शिशुरपि तरुणः, शिशुरपि पोषणाय पयःपानाय वा पितरौ नानुगच्छति, जन्मसमकालमेव च दौत्यं कर्तुं प्रारभते—इति प्रहेलिकालङ्कारः। यद्वा, विरोधालङ्कारो व्यज्यते ॥२॥
Essence
शिशुः सन् न कश्चिदपि शक्तिसाध्यं कर्म करोति, किन्तु मातुः स्तन्यपानेन पितुश्च संरक्षणेन पुष्टिं गत एव दुर्वहकर्मरणायोत्सहते। परम् आश्चर्यमिदं यदरणीरूपमातापितृभ्यां जनितो यज्ञाग्निः शिशुरेव सन्नुत्पत्तिसमकालमेव हविर्वहनरूपं दुष्करं दौत्यमाचरति। तथैव परमेश्वरोऽपि शिशुरपि तरुणः, भक्तानां शिशुवत् प्रियत्वात् तरुणवज्जगद्भारवहनरूपमहाकार्यकरणसमर्थत्वाच्च। सर्वे प्राणिनो मातापित्रोः सकाशाद् रसपानं विधायैव स्वशरीरे बलं सञ्चिन्वन्ति, परं परमेश्वरस्तयोः पयःपानं विनैव स्वभावतः परमबलवान्, प्रकृत्याः सकाशादुत्पन्नस्य विशालस्य ब्रह्माण्डभारस्य वोढा च वर्तते। परमेश्वरस्यैतत् सामर्थ्यं कर्म चाद्भुतमेव ॥२॥
Subject
अथाग्निसाम्येन परमेश्वरस्य महिमानमाह।
Footnote
१. ऋ० १०।११५।१ मातरावप्येति धातवे। अनूधा यदि जीजनदधा च नु ववक्ष इति पाठः।