Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 639

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣡यु꣢क्त स꣣प्त꣢ शु꣣न्ध्यु꣢वः꣣ सू꣢रो꣣ र꣡थ꣢स्य न꣣꣬प्त्र्यः꣢꣯ । ता꣡भि꣢र्याति꣣ स्व꣡यु꣢क्तिभिः ॥६३९॥

अ꣡यु꣢꣯क्त । स꣣प्त꣢ । शु꣣न्ध्यु꣡वः꣢ । सू꣡रः꣢꣯ । र꣡थ꣢꣯स्य । न꣣प्त्यः꣢꣯ । ता꣡भिः꣢꣯ । या꣣ति । स्व꣡यु꣢꣯क्तिभिः । स्व । यु꣣क्तिभिः ॥६३९॥

Mantra without Swara
अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्र्यः । ताभिर्याति स्वयुक्तिभिः ॥

अयुक्त । सप्त । शुन्ध्युवः । सूरः । रथस्य । नप्त्यः । ताभिः । याति । स्वयुक्तिभिः । स्व । युक्तिभिः ॥६३९॥

Samveda - Mantra Number : 639
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यपक्षे। (सूरः) सूर्यः (रथस्य) सौरमण्डलरूपस्य रथस्य (नप्त्र्यः) नप्त्रीः न पातयित्रीः। अत्र छान्दसः पूर्वसवर्णदीर्घाभावः। (सप्त) सप्तसंख्यकाः (शुन्ध्युवः) शुन्ध्यूः शोधिकाः दीधितीः। अत्र ‘इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानम्। अ० ६।४।७७ वा०’ इति शसि उवङादेशः। (अयुक्त) पृथिव्यादिभिः ग्रहोपग्रहैः युङ्क्ते, (स्वयुक्तिभिः) स्वेन नियुक्ताभिः (ताभिः) शोधिकाभिः दीधितिभिः असौ (याति) गच्छति, सक्रियो भवति, भूमण्डलादीनामुपकाराय चेष्टते इत्यर्थः ॥ अथ द्वितीयः—जीवात्मपक्षे। (सूरः) प्रेरको जीवात्मा (रथस्य) शरीररथस्य (नप्त्र्यः) न पातयित्रीः (सप्त) सप्तसंख्यकाः (शुन्ध्युवः) ज्ञानशोधिकाः ज्ञानेन्द्रियमनोबुद्धीः (अयुक्त) शरीररथे नियुङ्क्ते, (स्वयुक्तिभिः) स्वेन नियुक्ताभिः (ताभिः याति) जीवनयात्रां निर्वहति ॥ उक्तं च कठोपनिषदि—“आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च। इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः।” (कठ० ३।३,४) इति ॥ अथ तृतीयः—परमात्मपक्षे। (सूरः) सूर्यचन्द्रादीनां लोकानां प्रेरकः परमात्मा। षू प्रेरणे धातोः ‘सुसूधाञ्०। उ० २।२५’ इति क्रन् प्रत्ययः। (रथस्य) ब्रह्माण्डरथस्य (नप्त्र्यः) न पातयित्रीः (सप्त) सप्तसंख्यकाः (शुन्ध्युवः) शुद्धाः भूमीः भूः-भुवः-स्वः-महः-जनः-तपः-सत्यम् इत्याख्याः क्रमश उपर्युपरि विद्यमानाः सप्तलोकरूपाः पृथिवीः (अयुक्त) कार्ये नियुक्तवानस्ति, (स्वयुक्तिभिः) स्वेन नियुक्ताभिः ताभिर्भूमिभिः सः (याति) ब्रह्माण्डसंचालनव्यापारं निर्वहति ॥१३॥२ अत्र श्लेषालङ्कारः ॥१३॥
Essence
आदित्यः सप्तवर्णैः किरणैः सौरमण्डलम्, जीवात्मा मनोबुद्धिज्ञानेन्द्रियरूपैः सप्ततत्त्वैः शरीरम्, परमेश्वरश्च स्वात्मना सृष्टैः सप्तलोकैर्ब्रह्माण्डं सञ्चालयति ॥१३॥
Subject
अथ सूर्यो जीवात्मा परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १।५०।९, अथ० १३।२।२४ ऋषिः ब्रह्मा, देवता रोहित आदित्यः, २०।४७।२१। सर्वत्र ‘नप्त्र्यः’ इत्यस्य स्थाने ‘नप्त्यः’ इति पाठः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये वाचकलुप्तोपमालङ्कारमुखेन सूर्यवत् प्रकाशमानं परमेश्वरमुद्दिश्य व्याख्यातवान्।