Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 638

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
उ꣡द्द्यामे꣢꣯षि꣣ र꣡जः꣢ पृ꣣थ्व꣢हा꣣ मि꣡मा꣢नो अ꣣क्तु꣡भिः꣢ । प꣢श्य꣣ञ्ज꣡न्मा꣢नि सूर्य ॥६३८॥

उ꣢त् । द्याम् । ए꣣षि । र꣡जः꣢꣯ । पृ꣣थु꣢ । अ꣡हा꣢꣯ । अ । हा꣣ । मि꣡मा꣢꣯नः । अ꣣क्तु꣡भिः꣢ । प꣡श्य꣢꣯न् । ज꣡न्मा꣢꣯नि । सू꣣र्य ॥६३८॥

Mantra without Swara
उद्द्यामेषि रजः पृथ्वहा मिमानो अक्तुभिः । पश्यञ्जन्मानि सूर्य ॥

उत् । द्याम् । एषि । रजः । पृथु । अहा । अ । हा । मिमानः । अक्तुभिः । पश्यन् । जन्मानि । सूर्य ॥६३८॥

Samveda - Mantra Number : 638
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सूर्य) चराचरान्तर्यामिन् सूर्यसदृश जगदीश्वर ! त्वम् (अक्तुभिः) प्रलयरात्रिभिः सह (अहा) अहानि सृष्टिरूपाणि दिनानि (मिमानः) निर्मिमाणः। अनुपसृष्टोऽपि ‘माङ् माने शब्दे च’ इति धातुर्निर्माणार्थे दृश्यते। (जन्मानि) प्राणिनां पूर्वापराणि जनूंषि (पश्यन्) जानन् (पृथु) यशोमयम्। प्रथ प्रख्याने। (रजः) लोकम् (द्याम्) दीप्तिमयं ब्रह्माण्डम् (उद् एषि) उद्गमयसि, सञ्चालयसीत्यर्थः। ‘इण् गतौ’ अत्र ण्यर्थगर्भः ॥ भौतिकः सूर्योऽपि (अक्तुभिः) रात्रिभि सह, (अहा) अहानि (मिमानः) निर्मिमाणः (जन्मानि) जातानि वस्तूनि (पश्यन्) प्रकाशयन् (पृथु) विस्तीर्णम् (रजः) लोकम् (द्याम्) दिवम्, विस्तीर्णे लोके दिवि इत्यर्थः, (उदेति) उद्गतोऽस्ति ॥१२॥२ अत्र श्लेषालङ्कारः ॥१२॥
Essence
सौरलोके परमात्मना सञ्चालितः सूर्य एवाहोरात्रपक्षमासऋत्वयनसंवत्सरचक्रं प्रवर्तयति सर्वाणि प्रकाशयति च। परमात्माऽपि प्रलयरात्र्यनन्तरं सृष्टिरूपं ब्राह्मं दिवसं रचयति, जन्मनि जन्मनि कृतानि जनानां शुभाशुभकर्माणि च पश्यन् तेभ्यः शुभाशुभानि फलानि ददाति ॥१२॥
Subject
पुनरपि सूर्यः परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १।५०।७ ‘वि द्यामेषि राजस्पृथ्वहा’ इति पाठः। अथ० १३।२।२२ ऋषिः ब्रह्मा, देवता रोहित आदित्यः, ‘रजस्पृथ्वहर्मिमानो’ इति पाठः। अथ० २०।४७।१९ ‘रजस्पृथ्वहर्मिमानो’, ‘पश्यं जन्मानि’ इति पाठः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये सूर्योपमानेन जगदीश्वरविषये व्याख्यातवान्।