Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 637

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
ये꣡ना꣢ पावक꣣ च꣡क्ष꣢सा भु꣣रण्य꣢न्तं꣣ ज꣢ना꣣ꣳ अ꣡नु꣢ । त्वं꣡ व꣢रुण꣣ प꣡श्य꣢सि ॥६३७॥

ये꣡न꣢꣯ । पा꣣वक । च꣡क्ष꣢꣯सा । भु꣣रण्य꣡न्त꣢म् । ज꣡ना꣢꣯न् । अ꣡नु꣢꣯ । त्वम् । व꣣रुण । प꣡श्य꣢꣯सि ॥६३७॥

Mantra without Swara
येना पावक चक्षसा भुरण्यन्तं जनाꣳ अनु । त्वं वरुण पश्यसि ॥

येन । पावक । चक्षसा । भुरण्यन्तम् । जनान् । अनु । त्वम् । वरुण । पश्यसि ॥६३७॥

Samveda - Mantra Number : 637
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (पावक) हृदयानां पावित्र्यसम्पादक, (वरुण) पापनिवारक मुमुक्षुभिर्वरणीय सर्वश्रेष्ठ सूर्यसदृश परमात्मन् ! त्वम् (भुरण्यन्तम्) क्षिप्रं पुरुषार्थं कुर्वाणं जीवात्मानम्। भुरण्युरिति क्षिप्रनाम। निरु० १२।२२। (जनान्) उपासकजनांश्च (येन) अद्भुतेन (चक्षसा) ज्ञानेन (अनु) अनुगृह्णासि, तेन ज्ञानेन (त्वम् पश्यसि) स्वयमपि सर्वं किञ्चित् प्राणिनां शुभाशुभकर्मादिकं वेत्सि ॥२ भौतिकः सूर्योऽपि (पावकः) शोधकः, (वरुणः) वरणीयः रोगादिनिवारकश्च वर्तते। सोऽपि (जनान्) जातान् उत्पन्नान् प्राणिनः (भुरण्यन्तम्) धारयन्तम् भूमण्डलम्। भुरण धारणपोषणयोः कण्ड्वादिः। (येन चक्षसा) प्रकाशेन, (अनु) अनुगृह्णाति, तेन (पश्यति) स्वयमपि प्रकाशितोऽस्ति ॥११॥ यास्काचार्यो मन्त्रमिममेवं व्याचष्टे—अनेन पावक ख्यानेन भुरण्यन्तं जनान् अनु त्वं वरुण पश्यसि, तत्ते वयं स्तुम इति वाक्यशेषः। अपि वोत्तरस्याम्—“येना पावक चक्षसा भुरण्यन्तं जनाँ अनु। त्वं वरुण पश्यसि ॥ वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः। पश्यञ्जन्मानि सूर्य ॥ ऋ० १।५०।६,७ [तेन चक्षसा] व्येषि द्यां रजश्च पृथु महान्तं लोकम्, अहानि च मिमानो अक्तुभी रात्रिभिः सह पश्यन् जन्मानि जातानि सूर्य। अपि वा पूर्वस्याम्—येना पावक चक्षसा भुरण्यन्तं जनां अनु। त्वं वरुण पश्यसि ॥ प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान्। प्रत्यङ् विश्वं स्वर्दृशे ॥ ऋ० १।५०।६,५ [तेन चक्षसा] प्रत्यङ्ङिदं सर्वमुदेषि प्रत्यङ्ङिदं सर्वमभिविपश्यसि ॥ अपि वैतस्यामेव....तेन नो जनानभिविपश्यसि ॥” निरु० १२।२१-२४ ॥ अत्र श्लेषालङ्कारः ॥११॥
Essence
यथा प्रकाशमानः सर्योऽन्यान् प्रकाशयति तथा ज्ञानवान् परमेश्वरोऽन्येभ्यो ज्ञानं प्रयच्छति ॥११॥
Subject
पुनरपि सूर्यः परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १।५०।६, य० ३३।३२, अथ० १३।२।२१ ऋषिः ब्रह्मा, देवता रोहित आदित्यः। अथ० २०।४७।१८। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये जगदीश्वरविषये, यजुर्भाष्ये च राजधर्मविषये व्याख्यातवान्।