Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 636

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
प्र꣣त्य꣢ङ् दे꣣वा꣢नां꣣ वि꣡शः꣢ प्र꣣त्य꣡ङ्ङुदे꣢꣯षि꣣ मा꣡नु꣢षान् । प्र꣣त्य꣢꣫ङ् विश्व꣣꣬ꣳ स्व꣢꣯र्दृ꣣शे꣢ ॥६३६॥

प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । दे꣣वा꣡ना꣢म् । वि꣡शः꣢꣯ । प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । उत् । ए꣣षि । मा꣡नु꣢꣯षान् । प्र꣣त्य꣢ङ् । प्र꣣ति । अ꣢ङ् । वि꣡श्व꣢꣯म् । स्वः꣢꣯ । दृ꣣शे꣢ ॥६३६॥

Mantra without Swara
प्रत्यङ् देवानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ् विश्वꣳ स्वर्दृशे ॥

प्रत्यङ् । प्रति । अङ् । देवानाम् । विशः । प्रत्यङ् । प्रति । अङ् । उत् । एषि । मानुषान् । प्रत्यङ् । प्रति । अङ् । विश्वम् । स्वः । दृशे ॥६३६॥

Samveda - Mantra Number : 636
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे परमात्मसूर्य ! त्वम् (देवानाम्) विद्याप्रकाशकानाम् आचार्याणाम् (विशः) प्रजाः, अधीतविद्यान् स्नातकान् इत्यर्थः (प्रत्यङ्) अभिमुखो भवन्, किञ्च (मानुषान्) अन्यान् मननशीलान् जनान् (प्रत्यङ्) अभिमुखो भवन् (उदेषि) तेषामन्तःकरणे आविर्भवसि। अपि च (विश्वम्) सकलं वर्णाश्रमधर्मपालनकर्तारं जनम् (प्रत्यङ्) अभिमुखो भवन् त्वम् (दृशे) कर्त्तव्याकर्त्तव्ये द्रष्टुम् (स्वः) ज्ञानरूपं ज्योतिः, प्रयच्छसीति शेषः ॥२ भौतिकः सूर्योऽपि (देवानां विशः) देवानां पृथिव्यप्तेजोवाय्वाकाशानां विशः प्रजाः मृत्पाषाणगिरिसरिद्वृक्षवनस्पत्याद्याः (प्रत्यङ्) अभिमुखो भवन्, किञ्च (मानुषान्) मनुष्यान् (प्रत्यङ्) अभिमुखो भवन् उदेति। अपि च (विश्वम्) सकलं सोममङ्गलबुधबृहस्पत्यादिकं ग्रहोपग्रहजातम् (प्रत्यङ्) अभिमुखो भवन् (दृशे) अस्माकं दर्शनाय (स्वः) ज्योतिः प्रयच्छति ॥१०॥ अत्र श्लेषालङ्कारः, ‘प्रत्यङ्’ इत्यस्यावृत्तौ च लाटानुप्रासः ॥१०॥
Essence
यथा सूर्यः सर्वान् पदार्थान् स्वकिरणैः प्राप्य प्रकाशयति, तथा जगदीश्वरः सकलान् चेतनाचेतनान् प्रकाशयति, सर्वेषां हृदि ज्ञानप्रकाशं च सञ्चारयति ॥१०॥
Subject
पुनरपि सूर्यः परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १।५०।५, अथ० १३।२।२० ऋषिः ब्रह्मा, देवता रोहित आदित्यः। अथ० २०।४७।१७। अथर्ववेदे उभयत्र ‘मानुषान्’ इत्यत्र ‘मानुषीः’ इति पाठः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये जगदीश्वरपक्षे व्याख्यातवान्। एष च तत्कृतो भावार्थः—“यत ईश्वरः सर्वव्यापकः सकलान्तर्यामी समस्तकर्मसाक्षी वर्तते तस्मादयमेव सर्वैः सज्जनैरुपासनीयोऽस्ति” इति।