Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 635

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
त꣣र꣡णि꣢र्वि꣣श्व꣡द꣢र्शतो ज्योति꣣ष्कृ꣡द꣢सि सूर्य । वि꣢श्व꣣मा꣡भा꣢सि रोच꣣न꣢म् ॥६३५॥

त꣣र꣡णिः꣢ । वि꣣श्व꣡द꣢र्शतः । वि꣣श्व꣢ । द꣣र्षतः । ज्योतिष्कृ꣢त् । ज्यो꣣तिः । कृ꣢त् । अ꣣सि । सूर्य । वि꣡श्व꣢꣯म् । आ । भा꣣सि । रोचन꣢म् ॥६३५॥

Mantra without Swara
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमाभासि रोचनम् ॥

तरणिः । विश्वदर्शतः । विश्व । दर्षतः । ज्योतिष्कृत् । ज्योतिः । कृत् । असि । सूर्य । विश्वम् । आ । भासि । रोचनम् ॥६३५॥

Samveda - Mantra Number : 635
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सूर्य) आदित्यवद् भासमान सर्वप्रेरक परमात्मन् ! त्वम् (तरणिः) भवसागरात् तारयिता, (विश्वदर्शतः) सर्वैर्मुमुक्षुभिर्दर्शनीयः सर्वद्रष्टा वा, (ज्योतिष्कृत्) विवेकख्यातिरूपस्य अन्तर्ज्योतिषः कर्ता (असि) विद्यसे। किञ्च, (विश्वम्) सकलम् (रोचनम्) रोचमानं ब्रह्माण्डम् (आभासि) समन्तात् प्रकाशयसि ॥ भौतिकः सूर्योऽपि (तरणिः) रोगेभ्यस्तारकः, (विश्वदर्शतः) स्वप्रकाशेन सर्वेषां पदार्थानां दर्शयिता, (ज्योतिष्कृत्) पृथिव्यादिलोकेषु प्रकाशस्य कर्त्ता च अस्ति। किञ्च, (विश्वम्) सर्वम् (रोचनम्) दीप्तं मङ्गलबुधचन्द्रादिकं ग्रहोपग्रहगणम् आभाति समन्तात् प्रकाशयति ॥९॥२ अत्र श्लेषालङ्कारः ॥९॥
Essence
सूर्यपरमात्मनोर्मन्त्रोक्तान् गुणधर्मान् ज्ञात्वा सूर्यसेवनेन रोगाद्या निवारणीयाः, परमात्मध्यानेन च दुःखानि परिहृत्य मोक्षानन्दः प्रापणीयः ॥९॥
Subject
पुनरपि सूर्यः परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १।५०।४, य० ३३।३६, अथ० १३।२।१९ ऋषिः ब्रह्मा, देवता रोहित आदित्यः। अथ० २०।४७।१६। अथर्ववेदे उभयत्र ‘रोचनम्’ इत्यत्र ‘रोचन’ इति पाठः। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये सूर्यविद्युदुपमानत्वेन परमेश्वरपक्षे, यजुर्भाष्ये च राजपक्षे व्याख्यातवान्। सायणाचार्यश्च मन्त्रमेतं सूर्यपक्षे परमात्मपक्षे च व्याचष्टे। तथा हि परमात्मपक्षे तद्व्याख्यानम्—“हे सूर्य अन्तर्यामितया सर्वस्य प्रेरक परमात्मन्, त्वम् तरणिः संसाराब्धेस्तारकोऽसि। यस्मात् त्वं विश्वदर्शतः विश्वैः सर्वैर्मुमुक्षुभिः दर्शतो द्रष्टव्यः साक्षात्कर्तव्य इत्यर्थः [अधिष्ठानसाक्षात्कारे हि आरोपितं निवर्तते।], ज्योतिष्कृत् ज्योतिषः सूर्यादेः कर्ता [तच्चाम्नायते ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत’ इति।] ईदृशस्त्वं चिद्रूपतया विश्वं सर्वं दृश्यजातं रोचमानं दीप्यमानं यथा भवति तथा आभासि प्रकाशयसि। तथा चाम्नायते “तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति” इति।