Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 634

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣡दृ꣢श्रन्नस्य के꣣त꣢वो꣣ वि꣢ र꣣श्म꣢यो꣣ ज꣢ना꣣ꣳ अ꣡नु꣢ । भ्रा꣡ज꣢न्तो अ꣣ग्न꣡यो꣢ यथा ॥६३४॥

अ꣡दृ꣢꣯श्रन् । अ꣣स्य । केत꣡वः꣢ । वि । र꣣श्म꣡यः꣢ । ज꣡ना꣢꣯न् । अ꣡नु꣢꣯ । भ्रा꣡ज꣢꣯न्तः । अ꣣ग्न꣡यः꣢ । य꣣था ॥६३४॥

Mantra without Swara
अदृश्रन्नस्य केतवो वि रश्मयो जनाꣳ अनु । भ्राजन्तो अग्नयो यथा ॥

अदृश्रन् । अस्य । केतवः । वि । रश्मयः । जनान् । अनु । भ्राजन्तः । अग्नयः । यथा ॥६३४॥

Samveda - Mantra Number : 634
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) सूर्यस्य, तद्वद् भासमानस्य परमात्मनो वा (केतवः) प्रज्ञापकाः (रश्मयः) किरणाः प्रकाशाः वा (जनान् अनु) जातान् पदार्थान्, उपासकान् मनुष्यान् वा अनुप्राप्य (भ्राजन्तः) भ्राजमानाः (अग्नयः यथा) वह्नयः इव (वि अदृश्रन्) विलोक्यन्ते। दृश् धातोः कर्मणि लडर्थे लुङि ‘इरितो वा। अ० ३।१।५७’ इति अङ्, ‘बहुलं छन्दसि। अ० ७।१।८’ इति रुडागमः, ‘ऋदृशोऽङि गुणः। अ० ७।४।१६’ इति प्राप्तौ गुणाभावश्च ॥८॥२ अत्र श्लेषोपमालङ्कारौ, नतूत्प्रेक्षा काव्यसम्प्रदाये यथाशब्दस्योत्प्रेक्षावाचकत्वास्वीकरणात् ॥८॥
Essence
सूर्यस्य किरणा यदा स्वच्छेषु सुवर्णरजतताम्रपित्तलकाचादिषु पतन्ति तदा तत्र भासमानास्ते प्रज्वलद्वह्निसदृशाः प्रतीयन्ते। तथैव मनोभूमौ पतत् परमेश्वरस्य तेजोऽपि योगिभिः प्रज्वलितो विभावसुरिवानुभूयते ॥८॥
Subject
पुनरपि सूर्यः परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १।५०।३, अथ० १३।२।१८ ऋषिः ब्रह्मा, देवता रोहित आदित्यः। अथ० २०।४७।१५। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये (ऋ० १।५०।३) “यथास्य सूर्यस्य भ्राजन्तोऽग्नयः केतवो रश्मयो जनाननुभ्राजन्तः सन्ति तथाहं स्वस्त्रियं स्वपुरुषञ्चैव गम्यत्वेन व्यदृशं नान्यथेति यावत्।” इति विषये व्याख्यातवान्।