Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 633

1875 Mantra
Devata- सूर्यः Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣢प꣣ त्ये꣢ ता꣣य꣡वो꣢ यथा꣣ न꣡क्ष꣢त्रा यन्त्य꣣क्तु꣡भिः꣢ । सू꣡रा꣢य वि꣣श्व꣡च꣢क्षसे ॥६३३॥

अ꣡प꣢꣯ । त्ये । ता꣣य꣡वः꣢ । य꣣था । न꣡क्ष꣢꣯त्रा । य꣣न्ति । अक्तु꣡भिः꣢ । सू꣡रा꣢꣯य । वि꣣श्व꣡च꣢क्षसे । वि꣣श्व꣢ । च꣣क्षसे ॥६३३॥

Mantra without Swara
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः । सूराय विश्वचक्षसे ॥

अप । त्ये । तायवः । यथा । नक्षत्रा । यन्ति । अक्तुभिः । सूराय । विश्वचक्षसे । विश्व । चक्षसे ॥६३३॥

Samveda - Mantra Number : 633
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यपक्षे। (विश्वचक्षसे) सर्वप्रकाशकाय (सूराय) सूर्याय, भिया तस्मै अवकाशं प्रदातुमिवेत्यर्थः, (अक्तुभिः) रात्रिभिः सह। अक्तुरिति रात्रिनाम। निघं० १।७। (नक्षत्रा) तारावल्यः। नक्षत्राणि इति प्राप्ते, ‘शेश्छन्दसि बहुलम्’ इति शिलोपः। (अप यन्ति) अप गच्छन्ति, निलीयन्ते। कथमिव ? (त्ये) ते, रात्रौ परगृहे सन्धिच्छेदादिकं कुर्वाणाः (तायवः यथा) तस्कराः यथा सूर्यागमे निलीयन्ते तद्वदित्यर्थः। तायुरिति स्तेननाम। निघं० ३।२४ ॥ अथ द्वितीयः—परमात्मपक्षे। यदा हृदयगगने परमात्मसूर्य उदयोन्मुखो भवति तदा (विश्वचक्षसे) सर्वद्रष्ट्रे सर्वप्रकाशकाय वा (सूराय) तस्मै प्रेरकाय परमात्मने। षू प्रेरणे धातोः ‘सुसूधाञ्। उ० २।२४’ इति क्रन् प्रत्ययः। भिया तस्मै अवकाशं प्रदातुमिव (त्ये तायवः यथा) ते परविद्रावकाः तस्कराः इव (नक्षत्रा) सक्रियाः कामक्रोधलोभमोहादयः। नक्षतेर्गतिकर्मणः ‘अभिनक्षियजि०। उ० ३।१०५’ इति अत्रन् प्रत्ययः। (अक्तुभिः) तमोगुणव्याप्तिरूपाभिर्निशाभिः सह (अपयन्ति) अपगच्छन्ति ॥७॥२ अत्रोपमालङ्कारः श्लेषश्च ॥७॥
Essence
यथा गगने सूर्यमुदयोन्मुखं वीक्ष्य तीव्रप्रभाभीता इव तारागणाश्चौरा इव निलीयन्ते तथैव तेजोनिधिं परमेश्वरं हृदयाकाशे समुद्यन्तं विलोक्य दुर्धर्षात् तत्प्रतापात् त्रस्ताः कामक्रोधादयः पलायन्ते ॥७॥
Subject
अथ पुनरपि सूर्यस्य परमात्मनश्च महिमा वर्ण्यते।
Footnote
१. ऋ० १।५०।२, अथ० १३।२।१७ ऋषिः ब्रह्मा, देवता रोहित आदित्यः। अथ० २०।४७।१४। २. दयानन्दर्षिर्मन्त्रमिमम् ऋग्भाष्ये (ऋ० १।५०।२) “यथा रात्रौ नक्षत्राणि चन्द्रेण प्राणाश्च शरीरेण सह वर्तन्ते तथा विवाहितस्त्रीपुरुषौ वर्त्तेयाताम्” इति विषये व्याख्यातवान्।