Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 632

1875 Mantra
Devata- सूर्यः Rishi- सार्पराज्ञी Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
त्रि꣣ꣳश꣢꣫द्धाम꣣ वि꣡ रा꣢जति꣣ वा꣡क्प꣢त꣣ङ्गा꣡य꣢ धीयते । प्र꣢ति꣣ व꣢स्तो꣣र꣢ह꣣ द्यु꣡भिः꣢ ॥६३२॥

त्रिँ꣣श꣢त् । धा꣡म꣢꣯ । वि । रा꣣जति । वा꣢क् । प꣣तङ्गा꣡य꣢ । धी꣣यते । प्र꣡ति꣢꣯ । व꣡स्तोः꣢꣯ । अ꣡ह꣢꣯ । द्यु꣡भिः꣢꣯ ॥६३२॥

Mantra without Swara
त्रिꣳशद्धाम वि राजति वाक्पतङ्गाय धीयते । प्रति वस्तोरह द्युभिः ॥

त्रिँशत् । धाम । वि । राजति । वाक् । पतङ्गाय । धीयते । प्रति । वस्तोः । अह । द्युभिः ॥६३२॥

Samveda - Mantra Number : 632
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
एष सूर्यः परमात्मा वा (त्रिंशद् धाम) मासस्य त्रिंशत्संख्यकेष्वपि अहोरात्रेषु (वि राजति) विशेषेण भासमानो भवति। त्रिंशद् धाम इत्यत्र ‘कालाध्वनोरत्यन्तसंयोगे। अ० २।३।५’ इति द्वितीया। धाम इत्यत्र ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इति शिलोपः। तस्मै (पतङ्गाय) अक्षपरिभ्रमणशीलाय सूर्याय, कर्मयोगिने परमात्मने वा। पतति गच्छतीति पतङ्गः ‘पतेरङ्गच् पक्षिणि२। उ० १।११९’ इति पत धातोः अङ्गच् प्रत्ययः। चित्त्वादन्तोदात्तत्वम्। (वाक्) वाणी (धीयते) धार्य्यते, वाचा तद्गुणकर्मस्वरूपं वर्ण्यते इत्यर्थः। स सूर्यः परमात्मा च (प्रतिवस्तोः) प्रतिदिनम्। वस्तोः इत्यहर्नामसु पठितम्। निघं० १।९। (अह) एव (द्युभिः) किरणैः तेजोभिर्वा, सर्वं प्रकाशयति इति शेषः ॥६॥३ अत्र श्लेषालङ्कारः ॥६॥
Essence
यथा सूर्यः प्रतिदिनं दिव्यन्तरिक्षे भुवि च प्रकाशते, तथा परमात्मापि स्वकृतिभिः सर्वत्र यशसा भासते। तस्य सूर्यस्य परमात्मनश्च गुणकर्मादिकमुपवर्ण्य लाभाः सर्वैः प्राप्तव्याः ॥६॥
Subject
अथ पुरनपि सूर्यः परमात्मा च वर्ण्यते।
Footnote
१. ऋ० १०।१८९।३ देवता सार्पराज्ञी सूर्यो वा। य० ३।८ ऋषिः सर्पराज्ञी कद्रूः, देवता अग्निः। साम० १३७८। अथ० ६।३१।३ ऋषिः उपरिबभ्रवः, देवता गौः। अथ० २०।४८।६ ऋषिः सर्पराज्ञी, देवता सूर्यः, गौः। २. पक्षिणीत्युच्यमानेऽपि बाहुलकात् ‘पतङ्गः सूर्योऽग्निरश्वः शलभः शालिभेदो वा’ इत्यादीनामपि नामानि भवन्ति’ इत्युणादिकोशव्याख्याने द०। ३. दयानन्दर्षिणा मन्त्रोऽयम् यजुर्भाष्ये “या वाणी प्राणयुक्तेन शरीरस्थेन विद्युदाख्येनाग्निना नित्यं प्रकाश्यते सा तद्गुणप्रकाशाय विद्वद्भिर्नित्यमुपदेष्टव्या श्रोतव्या चेति” विषये व्याख्यातः।