Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 631

1875 Mantra
Devata- सूर्यः Rishi- सार्पराज्ञी Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣣न्त꣡श्च꣢रति रोच꣣ना꣢꣫स्य प्रा꣣णा꣡द꣢पान꣣ती꣢ । व्य꣢꣯ख्यन्महि꣣षो꣡ दिव꣢꣯म् ॥६३१॥

अ꣣न्त꣡रिति꣢ । च꣣रति । रोचना꣢ । अ꣣स्य꣢ । प्रा꣣णा꣢त् । प्र꣣ । आना꣢त् । अ꣣पानती꣢ । अ꣣प । अनती꣢ । वि । अ꣣ख्यत् । महिषः꣢ । दि꣡व꣢꣯म् ॥६३१॥

Mantra without Swara
अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥

अन्तरिति । चरति । रोचना । अस्य । प्राणात् । प्र । आनात् । अपानती । अप । अनती । वि । अख्यत् । महिषः । दिवम् ॥६३१॥

Samveda - Mantra Number : 631
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) एतस्य गोः सूर्यस्य परमात्मनो वा (रोचना) दीप्तिः (प्राणात्) प्राणनव्यापारानन्तरम् (अपानती) अपाननव्यापारं कारयन्ती (अन्तः) भुवो हृदयस्य चाभ्यन्तरे (चरति) विचरति। एष (महिषः) महान् सूर्यः परमेश्वरो वा। महिष इति महन्नाम। निघं० ३।३। (दिवम्) आकाशं जीवात्मानं वा (व्यख्यत्) प्रकाशयति ॥५॥२ अत्र अर्थश्लेषालङ्कारः ॥५॥
Essence
योऽयं प्राणः प्राणापानव्यानसमानोदानरूपेण देहेऽवस्थितः प्राणनापाननादिव्यापारं कुरुते तत्परमेश्वरमहिम्नैव, ‘स उ प्राणस्य प्राणः’ (केन० १।२) इति वचनात्। अपि च तद्विरचितः सूर्योऽपि स्वरश्मिभिः प्राणिभ्यः प्राणं प्रयच्छन् प्राणापानादिक्रियासु सहायको भवति, ‘प्राणः प्रजानामुदयत्येष सूर्यः’ (प्रश्न० १।८) इत्यादि स्मरणात्। परमेश्वर एव सूर्यद्वारेणाकाशस्थानि पिण्डान्यपि प्रकाशयति ॥५॥
Subject
अथ सूर्यस्य परमात्मनश्च तेजो वर्णयति।
Footnote
१. ऋ० १०।१८९।२, देवता सार्पराशी सूर्यो वा। य० ३।७ ऋषिः सार्पराज्ञी कद्रूः, देवता अग्निः। साम० १३७७। अथ० ६।३१।२ ऋषिः उपरिबभ्रवः, देवता गौः। अथ० २०।४८।५ ऋषिः सर्पराज्ञी, देवता सूर्यः, गौः। २. दयानन्दर्षिर्यजुर्भाष्ये मन्त्रमेतं विद्युदग्निपक्षे व्याख्यातवान्।