Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 630

1875 Mantra
Devata- सूर्यः Rishi- सार्पराज्ञी Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
आ꣡यं गौः पृश्नि꣢꣯रक्रमी꣣द꣡स꣢दन्मा꣣त꣡रं꣢ पु꣣रः꣢ । पि꣣त꣡रं꣢ च प्र꣣य꣡न्त्स्वः꣢ ॥६३०॥

आ꣢ । अ꣣य꣢म् । गौः । पृ꣡श्निः꣢꣯ । अ꣣क्रमीत् । अ꣡स꣢꣯दत् । मा꣣त꣡र꣢म् । पु꣣रः꣢ । पि꣣त꣡र꣢म् । च꣣ । प्रय꣢न् । प्र꣣ । य꣢न् । स्व३रि꣡ति꣢ ॥६३०॥

Mantra without Swara
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्वः ॥

आ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रयन् । प्र । यन् । स्व३रिति ॥६३०॥

Samveda - Mantra Number : 630
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यपक्षे। (अयम्) एषः (पृश्निः गौः) चित्रवर्णः सूर्यः। पृश्निः आदित्यो भवति, प्राश्नुत एनं वर्ण इति नैरुक्ताः। संस्पृष्टा रसान्, संस्पृष्टा भासं ज्योतिषां, संस्पृष्टो भासेति वा। गौः आदित्यो भवति, गमयति रसान्, गच्छत्यन्तरिक्षे। निरु० २।१४। (आ अक्रमीत्) परितः क्राम्यति, अक्षपरिभ्रमणं करोतीत्यर्थः। (पुरः) समक्षं स्थितः सन् (मातरम्) अस्मन्मातृभूतां भूमिम् (असदत्) आसीदति, किरणैः प्राप्नोति। षद्लृ विशरणगत्यवसादनेषु। अत्र गत्यर्थात् सामान्यार्थे लुङ्। (पितरम्) अस्मत्पितृभूतम् (स्वः च) अन्तरिक्षं च (प्रयन्) स्वरश्मिभिः प्रगच्छन्, स्थितोऽस्तीति शेषः ॥ अथ द्वितीयः—भूमण्डलपक्षे। (अयम्) एषः (पृश्निः) नानावर्णः (गौः) भूगोलः। इयं पृथिवी पृश्निः। तै० ब्रा० १।४।१।५। इति ह पृथिव्याः पृश्नित्वं विज्ञायते। (आ अक्रमीत्) आ समन्तात् अक्षपरिभ्रमणं करोति। (पुरः) पश्चिमतः पूर्वं पूर्वम् (पितरम्) पितृभूतम् (स्वः) आदित्यं परितः। स्वः आदित्यो भवति इति निरुक्तम्। २।१४। (प्रयन्) अण्डाकृतिमार्गे वेगेन धावन् (मातरम्) अन्तरिक्षम्, (मातुः) अन्तरिक्षस्य अङ्कम् इत्यर्थः। माता अन्तरिक्षम्, निर्मीयन्तेऽस्मिन् भूतानि। निरु० २।८। (असदत्) आसीदति। पृथिव्या भ्रमणमपि सूर्यस्यैव महत्त्वं द्योतयतीत्यत्रापि मन्त्रस्य सूर्यदेवतात्वं न व्याहन्यते ॥२ अथ तृतीयः—परमेश्वरपक्षे, ऋचोऽस्या वैकल्पिकत्वेनात्म- देवताकत्वात्।३ (अयम्) एषः (पृश्निः) भासा संस्पृष्टः (गौः) सर्वज्ञः सर्वव्यापी परमेश्वरः। गच्छति व्याप्नोति जानाति वा सर्वमिति गौः परमेश्वरः। (आ अक्रमीत्) पिण्डे ब्रह्माण्डे वा सर्वत्र पादविक्षेपं करोति, अन्तर्यामित्वेन तिष्ठतीत्यर्थः। (मातरम्) अध्यवसायात्मकज्ञानस्य निर्मात्रीं बुद्धिम् (पुरः) समक्षम् (असदत्) तिष्ठति, (पितरम्) पालकम् (स्वः च) सुखस्य भोक्तारं जीवात्मानं च (प्रयन्) प्राप्नुवन् भवति ॥ अथ चतुर्थः—जीवात्मपक्षे। (अयम्) एषः (पृश्निः) चित्रविचित्रकर्मसंस्कारः (गौः) प्रयत्नशीलो विज्ञाता वा जीवात्मा। गच्छति चेष्टते जानाति वा स गौः आत्मा। (आ अक्रमीत्) कर्मानुसारं मानवदेहं प्राप्नोति, (पुरः) प्रथमम् (मातरम्) जननीम्, तस्या उदरम् इत्यर्थः (असदत्) गच्छति, (च) पश्चाच्च जन्मानन्तरम् (स्वः) विज्ञानप्रकाशयुक्तम् (पितरम्) जनकम् (प्रयन्) प्रगच्छन् भवति ॥ अथ पञ्चमः—स्तोतृपक्षे। (अयम्) एषः (पृश्निः) चित्रगुणोपेतः (गौः) सूर्यवत् ज्ञानमयेन ज्योतिषा युक्तः स्तोता। गौरिति स्तोतृनामसु पठितम्। निघं० ३।१६। (आ अक्रमीत्) सर्वतः पुरुषार्थरूपंपादविक्षेपं करोति, (पुरः) अग्रे भूत्वा (मातरम्) वेदवाग्रूपां मातरम् (असदत्) प्राप्नोति, ततस्तन्माध्यमेन (स्वः) प्रकाशमयम् (पितरम् च) परमात्मरूपं जनकं च (प्रयन्) प्राप्नुवन् भवतीति शेषः, प्राप्तुं यतते इत्यर्थः ॥४॥ अत्र श्लेषालङ्कारः ॥४॥
Essence
सूर्यस्य स्थानान्तरगतिर्नास्ति, स स्वधुर्येव परिभ्रमति, पृथिवीमितरांश्च ग्रहोपग्रहान् सोममङ्गलबुधबृहस्पत्यादीन् स्वकीयै रश्मिभिरुपगम्य प्रकाशयति। पृथिव्याश्च द्विविधा गतिरस्ति, प्रथमा स्वधुरि यथाऽहोरात्रौ भवतः, द्वितीया च नियतकक्षायां सूर्यं परितः, यया संवत्सरचक्रं प्रवर्तते। परमेश्वरः सर्वव्यापकः सन् शरीरस्थान् आत्ममनोबुद्ध्यादीन् ब्रह्माण्डस्थांश्च सूर्यचन्द्रपृथिव्यादीन् सञ्चालयति। जीवात्मा शुभाशुभकर्मानुसारं मातुर्गर्भं प्राप्य जन्म गृह्णाति। परमात्मनः स्तोता च पुरुषार्थी भूत्वा वेदवाग्रूपां मातरं पितरं परमात्मानं चोपगच्छति ॥४॥
Subject
अथ गोनाम्ना सूर्यो भूलोकः परमात्मा जीवात्मा स्तोता च वर्ण्यते।
Footnote
१. ऋ० १०।१८९।१ देवता सार्पराज्ञी सूर्यो वा। य० ३।६ ऋषिः सर्पराज्ञी कद्रूः। देवता अग्निः। साम० १३७६। अथ० ६।३१।१ ऋषिः उपरिबभ्रवः, देवता गौः। अथ० २०।४८।४ ऋषिः सर्पराज्ञी, देवता सूर्यः, गौः। २. दयानन्दर्षिणा मन्त्रोऽयम् ऋग्वेदादिभाष्यभूमिकायां पृथिव्यादिलोकभ्रमणप्रकरणे भूगोलसूर्यचन्द्रादिलोकभ्रमणविषये, यजुर्भाष्ये च भूलोकस्य सूर्यं परितो भ्रमणविषये व्याख्यातः। ३. आयं गौः पृश्निरित्यस्य सार्पराज्ञी समैक्षत। ऋचस्तिस्रो भवेदासां विकल्पेनात्मदेवता ॥ इति सा०।