Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 63

1875 Mantra
Devata- अग्निः Rishi- श्यावाश्वो वामदेवो वा Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
आ꣡ जु꣢होता ह꣣वि꣡षा꣢ मर्जय꣣ध्वं नि꣡ होता꣢꣯रं गृ꣣ह꣡प꣢तिं दधिध्वम् । इ꣣ड꣢स्प꣣दे꣡ नम꣢꣯सा रा꣣त꣡ह꣢व्यꣳ सप꣣र्य꣡ता꣢ यज꣣तं꣢ प꣣꣬स्त्या꣢꣯नाम् ॥६३

आ꣢ । जु꣣होत । हवि꣡षा꣢ । म꣣र्जयध्वम् । नि꣢ । हो꣡ता꣢꣯रम् । गृ꣣ह꣡प꣢तिम् । गृ꣣ह꣢ । प꣣तिम् । दधिध्वम् । इडः꣢ । प꣣दे꣢ । न꣡म꣢꣯सा । रा꣣त꣡ह꣢व्यम् । रा꣣त । ह꣣व्यम् । सपर्य꣡त꣢ । य꣣जत꣢म् । प꣣स्त्या꣢꣯नाम् ॥६३॥

Mantra without Swara
आ जुहोता हविषा मर्जयध्वं नि होतारं गृहपतिं दधिध्वम् । इडस्पदे नमसा रातहव्यꣳ सपर्यता यजतं पस्त्यानाम् ॥६३

आ । जुहोत । हविषा । मर्जयध्वम् । नि । होतारम् । गृहपतिम् । गृह । पतिम् । दधिध्वम् । इडः । पदे । नमसा । रातहव्यम् । रात । हव्यम् । सपर्यत । यजतम् । पस्त्यानाम् ॥६३॥

Samveda - Mantra Number : 63
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 2; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 7;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे स्तोतारः ! यूयम् (हविषा) आत्मसमर्पणरूपेण हव्येन (आ जुहोत) आजुहुत, परमात्माग्नौ अग्निहोत्रं कुरुत। अत्र हविः आजुहुत इति प्राप्ते तृतीया च होश्छन्दसि।’ अ० २।३।३ इति जुहोतेः कर्मणि तृतीया। जुहोत इत्यत्र तप्तनप्तनथनाश्च।’ अ० ७।१।४५ इति लोण्मध्यमबहुवचनस्य तस्य स्थाने तप्, तस्य च पित्त्वेन ङिद्वद्भावाभावाद् गुणनिषेधो न। (मर्जयध्वम्) स्वात्मानं मार्जयत, शोधयत अलङ्कुरुत वा। मृज् शुद्धौ अलङ्कारे च, चुरादिः। (होतारम्) यज्ञफलप्रदातारम्, (गृहपतिम्) शरीरगृहस्य रक्षकं तं परमात्माग्निम् (निदधिध्वम्) हृदये निधारयत नितरां ध्यायत इत्यर्थः। निपूर्वो दध धारणे भ्वादिः, इडागमश्छान्दसः। (रातहव्यम्) रातं दत्तं हव्यं दातुं योग्यं सांसारिकवस्तुजातं सद्गुणजातं वा येन तम्, (पस्त्यानाम्१) प्रजानाम्। विशो वै पस्त्याः। श० ५।३।५।१९। (यजतम्) पूजनीयं तं परमात्माग्निम्। यज धातोः भृमृदृशियजि०’ उ० ३।११० इकि अतच् प्रत्ययः। (इडः पदे) इडः इडायाः पदे स्थाने, हृदयरूपयज्ञवेदिस्थले इत्यर्थः। इडा पृथिवीनाम। निघं० १।१। तथैव इड्शब्दोऽपि पृथिवीनामसु पठितव्यः। (नमसा) नमस्कारेण (सपर्यत) पूजयत। संहितायां जुहोता, सपर्यता इत्यत्र ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्।’ अ० ६।३।१३३ इत्यनेन दीर्घः ॥१॥ अत्र आजुहोत, मर्जयध्वम्, निदधिध्वम्, सपर्यत इत्यनेकक्रियाणामेककर्तृकारकसम्बन्धाद् दीपकालङ्कारः२ ॥१॥
Essence
आत्मकल्याणेप्सुभिर्जनैः स्वात्मानं परमात्माग्नौ समर्प्य स्वात्म- शुद्धिर्विधेया ॥१॥
Subject
अथ परमात्मा सर्वैर्ध्यातव्यः पूजनीयश्चेत्याह।
Footnote
१. पस्त्यानि गृहाणि तेषु ये निवसन्ति ते पस्त्याः—इति वि०। पस्त्याः गृहाः, गृहस्थानामित्यर्थः—इति भ०। यज्ञगृहाणाम्—इति सा०। २. अथ कारकमेकं स्यादनेकासु क्रियासु चेत्। सा० द० १०।४९ इति तल्लक्षणात्।