Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 629

1875 Mantra
Devata- सूर्यः Rishi- कुत्स आङ्गिरसः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
चि꣣त्रं꣢ दे꣣वा꣢ना꣣मु꣡द꣢गा꣣द꣡नी꣢कं꣣ च꣡क्षु꣢र्मि꣣त्र꣢स्य꣣ व꣡रु꣢णस्या꣣ग्नेः꣢ । आ꣢प्रा꣣ द्या꣡वा꣢पृथि꣣वी꣢ अ꣣न्त꣡रि꣢क्ष꣣ꣳ सू꣡र्य꣢ आ꣣त्मा꣡ जग꣢꣯तस्त꣣स्थु꣡ष꣢श्च ॥६२९॥

चि꣣त्र꣢म् । दे꣣वा꣡ना꣢म् । उत् । अ꣣गात् । अनी꣢कम् । चक्षुः । मित्र꣢स्य । मि । त्रस्य । वरु꣢णस्य । अग्नेः । आ । अ꣣प्राः । द्या꣡वा꣢꣯ । पृ꣣थिवी꣡इति꣢ । अ꣣न्त꣡रि꣢क्षम् । सू꣡र्यः꣢꣯ । आ꣣त्मा꣢ । ज꣡ग꣢꣯तः । त꣣स्थु꣡षः꣢ । च꣣ ॥६२९॥

Mantra without Swara
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च ॥

चित्रम् । देवानाम् । उत् । अगात् । अनीकम् । चक्षुः । मित्रस्य । मि । त्रस्य । वरुणस्य । अग्नेः । आ । अप्राः । द्यावा । पृथिवीइति । अन्तरिक्षम् । सूर्यः । आत्मा । जगतः । तस्थुषः । च ॥६२९॥

Samveda - Mantra Number : 629
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—सूर्यपक्षे। (देवानाम्) प्रकाशकानां सूर्यरश्मीनां (चित्रम्) अद्भुतम् चित्रवर्णं वा (अनीकम्) सैन्यम् (उद् अगात्) उद्गतम् अस्ति, यत् (मित्रस्य) शरीरे प्राणस्य बहिश्च अह्नः, (वरुणस्य) शरीरे अपानस्य बहिश्च रात्रेः। प्राणो वै मित्रोऽपानो वरुणः। श० ८।४।२।६। अहर्वे मित्रो रात्रिर्वरुणः। ऐ० ब्रा० ४।१०। किञ्च (अग्नेः) शरीरे वाचः बहिश्च पार्थिवाग्नेः। वागेवाग्निः। श० ३।२।२।१३। (चक्षुः) प्रकाशकं विद्यते। चक्षुः ख्यातेर्वा चष्टेर्वा। निरु० ४।३। दर्शनार्थात् चक्षिङ् धातोः ‘चक्षेः शिच्च। उ० २।११९’ इति उसिः प्रत्ययः। (सूर्यः) आदित्यः (द्यावापृथिवी) द्युलोकभूलोकौ। द्यौश्च पृथिवी च इति देवताद्वन्द्वे ‘दिवो द्यावा। अ० ६।३।२९’ इति दिवो द्यावादेशः। (अन्तरिक्षम्) अन्तरिक्षलोकं च (आ अप्राः) प्रकाशेन पूरितवानस्ति। स सूर्यः (जगतः) जङ्गमस्य मनुष्यपशुपक्ष्यादिकस्य (तस्थुषः) स्थावरस्य वृक्षपर्वतादेश्च (आत्मा) जीवनाधारः अस्ति ॥ अथ द्वितीयः—परमात्मपक्षे। (देवानाम्) सत्याहिंसादीनां दिव्यगुणानाम् (चित्रम्) स्पृहणीयम् (अनीकम्) सैन्यम् (उद् अगात्) मदीये हृदये उदितम् अस्ति, यत् (मित्रस्य) मैत्रीगुणस्य, (वरुणस्य) पापनिवारणगुणस्य, (अग्नेः) अध्यात्मज्योतिषश्च (चक्षुः) प्रकाशकं वर्तते। हे परमात्मसूर्य ! त्वम्, (द्यावापृथिवी) दिवम् आनन्दमयकोशं, पृथिवीम् अन्नमयकोशम्, (अन्तरिक्षम्) मध्यस्थं प्राणमयं मनोमयं विज्ञानमयं च कोशम् (आ अप्राः) स्वतेजसा पूरितवानसि, यद्वा (द्यावापृथिवी) दिवं भूमिं च (अन्तरिक्षम्) मध्यलोकं च (आप्राः) स्वयशसा पूरितवानसि। (सूर्यः) तादृशः सूर्यवत् प्रकाशमानः प्रकाशकश्च त्वम् (जगतः) जङ्गमस्य (तस्थुषः च) स्थावरस्य च (आत्मा) अन्तर्यामी असि ॥३॥२ यास्कमुनिरिमं मन्त्रमेवं व्याचष्टे—चायनीयं देवानामुदगादनीकं ख्यानं मित्रस्य वरुणस्याग्नेश्च, अपूपुरद् द्यावापृथिवी चान्तरिक्षं च महत्त्वेन, सूर्य आत्मा जङ्गमस्य स्थावरस्य च। निरु० १२।१६ ॥ अत्र श्लेषालङ्कारः स्वभावोक्तिश्च ॥३॥
Essence
यथा सूर्यः किरणान् विकीर्य स्थावरजङ्गमानुपकरोति तथा परमेश्वरो हृदये दिव्यगुणान् विकीर्य जनानां हितं साधयति ॥३॥
Subject
अथ सूर्योदयमिव परमात्मोदयं वर्णयति।
Footnote
१. ऋ० १।११५।१, य० ७।४२ अन्ते ‘स्वाहा’ इत्यधिकम्, य० १३।४६ ऋषिः विरूपः। अथ० १३।२।३५ ऋषिः ब्रह्मा, देवता रोहित आदित्यः, ‘आप्रा’ इत्यत्र ‘आप्राद्’ इति पाठः। अथ० २०।१०७।१४ अत्रापि ‘आप्राद्’ इत्येव पाठः, ऋषि-देवते सामवत्। २. दयानन्दर्षिरपि मन्त्रमेतम् ऋग्भाष्ये यजुर्भाष्ये च परमेश्वरविषय एव व्याख्यातवान्।