Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 628

1875 Mantra
Devata- सूर्यः Rishi- विभ्राट् सौर्यः Chhand- जगती Swara- निषादः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
वि꣣भ्रा꣢ड्बृ꣣ह꣡त्पि꣢बतु सो꣣म्यं꣢꣫ मध्वायु꣣र्द꣡ध꣢द्य꣣ज्ञ꣡प꣢ता꣣व꣡वि꣢ह्रुतम् । वा꣡त꣢꣯जूतो꣣ यो꣡ अ꣢भि꣣र꣡क्ष꣢ति꣣ त्म꣡ना꣢ प्र꣣जाः꣡ पि꣢पर्ति ब꣣हुधा꣡ वि रा꣢꣯जति ॥६२८॥

वि꣣भ्रा꣢ट् । वि꣣ । भ्रा꣢ट् । बृ꣣ह꣢त् । पि꣣बतु । सोम्य꣢म् । म꣡धु꣢꣯ । आ꣡युः꣢꣯ । द꣡ध꣢꣯त् । य꣣ज्ञ꣡प꣢तौ । य꣣ज्ञ꣢ । प꣣तौ । अ꣡वि꣢꣯ह्रुतम् । अ꣡वि꣢꣯ । ह्रु꣣तम् । वा꣡त꣢꣯जूतः । वा꣡त꣢꣯ । जू꣣तः । यः꣢ । अ꣣भिर꣡क्ष꣢ति । अ꣣भि । र꣡क्ष꣢꣯ति । त्म꣡ना꣢꣯ । प्र꣣जाः꣢ । प्र । जाः꣢ । पि꣣पर्त्ति । बहुधा꣢ । वि । रा꣣जति ॥६२८॥

Mantra without Swara
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ॥

विभ्राट् । वि । भ्राट् । बृहत् । पिबतु । सोम्यम् । मधु । आयुः । दधत् । यज्ञपतौ । यज्ञ । पतौ । अविह्रुतम् । अवि । ह्रुतम् । वातजूतः । वात । जूतः । यः । अभिरक्षति । अभि । रक्षति । त्मना । प्रजाः । प्र । जाः । पिपर्त्ति । बहुधा । वि । राजति ॥६२८॥

Samveda - Mantra Number : 628
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(विभ्राट्) सूर्यवद् विभ्राजमानः परमात्मा (बृहत्) महत् (सोम्यम्) ज्ञानकर्मरूपेण सोमेन युक्तम्। अत्र सोमशब्दात् ‘मये च। अ० ४।४।१३८’ इति मयडर्थे यः प्रत्ययः। (मधु) मधुरं भक्तिरसम् (पिबतु) आस्वादयतु, किञ्च सः (यज्ञपतौ) यजमाने (अविह्रुतम्) अकुटिलम्। ह्वृ कौटिल्ये, ‘ह्रु ह्वरेश्छन्दसि। अ० ७।२।३१’ इति धातोः ह्रुः आदेशः। (आयुः) जीवनम् (दधत्) स्थापयन्, भवत्विति शेषः, (वातजूतः) वातेन प्राणायामेन जूतः प्रेरितः (यः) परमात्मा (त्मना) आत्मना। ‘मन्त्रेष्वाङ्यादेरात्मनः। अ० ६।४।१४१’ इत्याकारलोपः। (प्रजाः) जनान् (अभिरक्षति) परित्रायते, (पिपर्ति) शक्त्या पूरयति, (बहुधा) बहुप्रकारेण सच्चिदानन्द-स्वरूप-निराकार-सर्वशक्तिमद्-दयाल्वादिरूपेण (विराजति) विशेषेण शोभते च। अत्र श्लेषेण सूर्यपक्षेऽप्यर्थो योजनीयः ॥२॥२
Essence
यथा भ्राजमानः सूर्यः समुद्रादीनां सलिलं पिबति तथा विभ्राजमानः परमेश्वरः भक्तजनानां भक्तिरसं पिबति। यथा सूर्यो दीर्घायुष्यं प्रयच्छति तथा परमेश्वरोऽकुटिलं जीवनं प्रयच्छति। यथा स्वाभ्यन्तरे विद्यमानैर्घनीभूतैर्वायुभिर्गतिमयः सूर्यो जनानभिरक्षति, तथा योगिनां प्राणायामाभ्यासैर्हृदये प्रेरितः परमेश्वरस्तान् रक्षति। यथा सूर्यः प्रजाः पालयति प्रतिमासं विभिन्नरूपैश्च प्रकटीभवति तथा परमेश्वरो जनान् पालयति पूरयति वा, बहुभी रूपैश्चोपासकानां हृदि प्रकाशते ॥२॥
Subject
अथाग्रे सर्वासां सूर्यो देवता। सूर्यदृष्टान्तेन परमात्मानं वर्णयति।
Footnote
१. ऋ० १०।१७०।१, य० ३३।३०, उभयत्र ‘प्रजाः पुपोष पुरुधा विराजति’ इति पाठः। साम० १४५३। २. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये “हे राजादयो मनुष्याः ! यथा सूर्यो वृष्टिद्वारा सर्वेषां जीवनं पालयति तद्वत् सद्गुणैर्महान्तो भूत्वा न्यायविनयाभ्यां प्रजाः सततं रक्षन्तु” इत्यर्थे व्याख्यातवान्।