Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 627

1875 Mantra
Devata- अग्निः पवमानः Rishi- शतं वैखानसाः Chhand- गायत्री Swara- षड्जः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
अ꣢ग्न꣣ आ꣡यू꣢ꣳषि पवस꣣ आ꣢सु꣣वो꣢र्ज꣣मि꣡षं꣢ च नः । आ꣣रे꣡ बा꣢धस्व दु꣣च्छु꣡ना꣢म् ॥६२७॥

अ꣡ग्ने꣢꣯ । आ꣡यूँ꣢꣯षि । प꣣वसे । आ꣢ । सु꣣व । ऊ꣡र्ज꣢꣯म् । इ꣡ष꣢꣯म् । च꣣ । नः । आरे꣢ । बा꣣धस्व । दुच्छु꣡ना꣢म् ॥६२७॥

Mantra without Swara
अग्न आयूꣳषि पवस आसुवोर्जमिषं च नः । आरे बाधस्व दुच्छुनाम् ॥

अग्ने । आयूँषि । पवसे । आ । सुव । ऊर्जम् । इषम् । च । नः । आरे । बाधस्व । दुच्छुनाम् ॥६२७॥

Samveda - Mantra Number : 627
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 5;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 5;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक परमात्मन् विद्वन् राजन् वा ! त्वम् (आयूंषि) अस्माकं जीवनानि (पवसे) पवित्रीकुर्याः। पूङ् पवने भ्वादिः, लेटि रूपम्। (नः) अस्मभ्यम् (ऊर्जम्) बलं प्राणं च। ऊर्ज बलप्राणनयोः, चुरादिः। (इषं च२) विज्ञानं च। इष गतौ दिवादिः। गतेस्त्रयोऽर्था ज्ञानं गमनं प्राप्तिश्च। (आ सुव) समन्तात् प्रेरय, आगमय। षू प्रेरणे तुदादिः। (दुच्छुनाम्३) दुर्गतिम् (आरे) दूरम् (बाधस्व) प्रक्षिप ॥१॥४ अत्र अर्थश्लेषालङ्कारः ॥१॥
Essence
मनुष्यैः परमात्मानमुपास्य, विद्वांसौ स्त्री-पुरुषौ राजानं च संगत्य जीवनेषु पवित्रतामानीय, बलप्राणविज्ञानादिकं च संचित्य दुःखदुर्गत्यादयो विनाशनीयाः ॥१॥
Subject
तत्राद्याया अग्निः पवमानो देवता। अग्निनाम्ना परमात्मा, विद्वान्, राजा च प्रार्थ्यते।
Footnote
१. ऋ० ९।६६।१९, य० १९।३८ ऋषिः वैखानसः। य० ३५।१६ ऋषयः आदित्या देवाः। साम० १४६४, १५१८। २. (इषम्) इच्छासिद्धिम्—इति य० १९।३८ भाष्ये, (इषम्) विज्ञानम्—इति च य० ३५।१६ भाष्ये द०। ३. आकारान्तोऽयं शब्दः दुच्छुना ऋ० २।२३।६, दुच्छुनाः ऋ० १।११६।२१, दुच्छुनाभ्यः ऋ० २।३२।२, दुच्छुनायै ऋ० १।१८९।५ इत्यादिप्रयोगदर्शनात्। शुना गतिः (टुओश्वि गतिवृद्ध्योः), दुष्टा शुना दुच्छुना दुर्गतिः। न तु ‘दुच्छ्वा’ इत्यस्य षष्ठ्यन्तं रूपं दुच्छुनामिति। ४. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये १९।३८ इत्यत्र विद्वत्पितृपितामहप्रपितामहपक्षे, ३५।१६ इत्यत्र च परमेश्वरपक्षे विद्वत्पक्षे च व्याख्यातवान्।