Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 626

1875 Mantra
Devata- गावः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
स꣣ह꣡र्ष꣢भाः स꣣ह꣡व꣢त्सा उ꣣दे꣢त꣣ वि꣡श्वा꣢ रू꣣पा꣢णि꣣ बि꣡भ्र꣢तीर्द्व्यूध्नीः । उ꣣रुः꣢ पृ꣣थु꣢र꣣यं꣡ वो꣢ अस्तु लो꣣क꣢ इ꣣मा꣡ आपः꣢꣯ सुप्रपा꣣णा꣢ इ꣣ह꣡ स्त ॥६२६

स꣣ह꣡र्ष꣢भाः । स꣣ह꣢ । ऋ꣣षभाः । सह꣡व꣢त्साः । स꣣ह꣢ । व꣣त्साः । उदे꣡त꣢ । उ꣣त् । ए꣡त꣢꣯ । वि꣡श्वा꣢꣯ । रू꣣पा꣡णि꣢ । बि꣡भ्र꣢꣯तीः । द्व्यू꣣ध्नीः । द्वि । ऊध्नीः । उरुः꣢ । पृ꣣थुः꣢ । अ꣣य꣢म् । वः꣣ । अस्तु । लोकः꣢ । इ꣣माः꣢ । आ꣡पः꣢꣯ । सु꣣प्रपाणाः꣢ । सु꣣ । प्रपाणाः꣢ । इ꣣ह꣢ । स्त꣣ ॥६२६॥

Mantra without Swara
सहर्षभाः सहवत्सा उदेत विश्वा रूपाणि बिभ्रतीर्द्व्यूध्नीः । उरुः पृथुरयं वो अस्तु लोक इमा आपः सुप्रपाणा इह स्त ॥६२६

सहर्षभाः । सह । ऋषभाः । सहवत्साः । सह । वत्साः । उदेत । उत् । एत । विश्वा । रूपाणि । बिभ्रतीः । द्व्यूध्नीः । द्वि । ऊध्नीः । उरुः । पृथुः । अयम् । वः । अस्तु । लोकः । इमाः । आपः । सुप्रपाणाः । सु । प्रपाणाः । इह । स्त ॥६२६॥

Samveda - Mantra Number : 626
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे इन्द्रियरूपा१ गावः ! (सहर्षभाः) जीवात्मरूपेण वृषभेण सहिताः, (सहवत्साः) मनोरूपेण वत्सेन च सहिताः (विश्वा रूपाणि) सर्वाणि चक्षुःश्रोत्रत्वगाद्यानि नामानि (बिभ्रतीः) धारयन्त्यः (द्व्यूध्नीः) ज्ञानकर्मरूपेण आपीनद्वयेन युक्ताः यूयम् (उदेत) उद्यमं कुरुत। (उरुः) सुदीर्घः (पृथुः) सुविस्तीर्णः (अयम्) एषः (लोकः) भुवनम् (वः) युष्मभ्यम् (अस्तु) भवतु। (इमाः) एताः (सुप्रपाणाः) सुखेन पातुम् आस्वादयितुं योग्याः (आपः) जलानीव आप्तव्याः रूपरसगन्धाद्याः विषयाः सन्ति, (इह स्त) एषु भवत, इमान् यथायोग्यम् आस्वादयद्ध्वमित्यर्थः ॥१२॥
Essence
धेनुपक्षेऽपि योजनीयम्। यथा गावो वृषभेण वत्सेन च सह विचरन्ति, तथा इन्द्रियाण्यात्मना मनसा च सह। यथा गावः श्वेतकृष्णादिरूपाणि बिभ्रति तथेन्द्रियाणि चक्षुःश्रोत्रादिरूपाणि। यथा गावः सायंप्रातरुभयोः कालयोः पूर्णोधस्त्वेन द्व्यूध्नीः, तथेन्द्रियाणि ज्ञानेन कर्मणा च। यथा गावो विस्तीर्णेषु गोचरेषु विचरन्ति तथेन्द्रियाणि विस्तीर्णेषु विषयेषु। यथा गावः सुपेयानि जलानि पिबन्ति, तथेन्द्रियाणि विषयरसान्। एषामिन्द्रियरूपाणां गवां सज्ज्ञान-सत्कर्मरूपं पयः संसेव्य सततं दैहिक्याध्यात्मिकी च पुष्टिः सर्वैः प्राप्तव्या ॥१२॥ अत्राग्निजिह्वा-सर्वर्तुरमणीयत्व-परमपुरुषमहिम-मातापितृकर्तव्य- वर्चःसहप्राप्त्यादिवर्णनादेतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह संगतिरस्ति ॥ इति षष्ठे प्रपाठके तृतीयार्धे चतुर्थी दशतिः ॥ इति षष्ठेऽध्याये चतुर्थः खण्डः ॥
Subject
अथ गौर्देवता। गवां साम्येनेन्द्रियाण्युच्यन्ते।
Footnote
१. (गाः) इन्द्रियाणि—इति ऋ० १।१०।८ भाष्ये द०।