Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 625

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
स꣢ह꣣स्त꣡न्न꣢ इन्द्र꣣ द꣣द्ध्यो꣢ज꣡ ई꣢शे꣣꣬ ह्यस्य म꣢ह꣣तो꣡ वि꣢रप्शिन् । क्र꣢तुं꣣ न꣡ नृ꣣म्ण꣡ꣳ स्थवि꣢꣯रं च꣣ वा꣡जं꣢ वृ꣣त्रे꣢षु꣣ श꣡त्रू꣢न्त्सु꣣ह꣡ना꣢ कृधी नः ॥६२५

स꣡हः꣢꣯ । तत् । नः꣣ । इन्द्र । दद्धि । ओ꣡जः꣢꣯ । ई꣡शे꣢꣯ । हि । अ꣣स्य । महतः꣢ । वि꣣रप्शिन् । वि । रप्शिन् । क्र꣡तु꣢꣯म् । न । नृ꣣म्ण꣢म् । स्थ꣡वि꣢꣯रम् । स्थ । वि꣣रम् । च । वा꣡ज꣢꣯म् । वृ꣣त्रे꣡षु꣢ । श꣡त्रू꣢꣯न् । सु꣣ह꣡ना꣢ । सु꣣ । ह꣡ना꣢꣯ । कृ꣣धि । नः ॥६२५॥

Mantra without Swara
सहस्तन्न इन्द्र दद्ध्योज ईशे ह्यस्य महतो विरप्शिन् । क्रतुं न नृम्णꣳ स्थविरं च वाजं वृत्रेषु शत्रून्त्सुहना कृधी नः ॥६२५

सहः । तत् । नः । इन्द्र । दद्धि । ओजः । ईशे । हि । अस्य । महतः । विरप्शिन् । वि । रप्शिन् । क्रतुम् । न । नृम्णम् । स्थविरम् । स्थ । विरम् । च । वाजम् । वृत्रेषु । शत्रून् । सुहना । सु । हना । कृधि । नः ॥६२५॥

Samveda - Mantra Number : 625
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) महावीर परमात्मन् राजन् वा ! त्वम् (नः) अस्मभ्यम् (तत्) सर्वैः स्पृहणीयम् (सहः) शत्रुपराजयकरम् (ओजः) अध्यात्मं शारीरं च बलम् (दद्धि) देहि, (हि) यस्मात् हे (विरप्शिन्) महामहिम ! विरप्शीति महन्नाम। निघं० ३।३। (अस्य) एतस्य (महतः) महत्त्वयुक्तस्य बलस्य, त्वम् (ईशे) ईशिषे अधीश्वरोऽसि। त्वम् अस्मभ्यम् (क्रतुम् न नृम्णम्) प्रज्ञामिव बलम्, प्रज्ञां च बलं चेत्यर्थः। क्रतुरिति प्रज्ञानाम। निघं० ३।९, नृम्णं च बलं, नॄन् नतम्। निरु० ११।७। (स्थविरं च वाजम्) प्रचुरम् ऐश्वर्यं च दद्धि देहि। किञ्च, (वृत्रेषु) दुष्टेषु शत्रुषु (नः) अस्मान् (सहना१) प्रहारसहनशीलान् (शत्रून्) शातयितॄन्। सहना इत्यत्र ‘सुपां सुलुक्०। अ० ७।१।३९’ इति शसः आकारादेशः। (कृधि) कुरु ॥११॥ अत्र अर्थश्लेषालङ्कारः ॥११॥
Essence
परमेश्वरस्य कृपया, नृपतेः साहाय्येन, स्वपुरुषार्थेन च वयं बलिनो धनिनः शत्रुविजयिनश्च भूयास्म ॥११॥
Subject
अथेन्द्रो देवता। परमात्मानं राजानं वा प्रार्थयते।
Footnote
१. अस्माभिः सामसंहितासु ‘सहना’ इत्येव पाठो दृष्टः। ‘सुहना’ इति पदकाराभिमतः पाठः। स्वरे न कश्चिद् भेदः। पदपाठानुसरणे तु—‘वृत्रेषु शत्रुषु, नः अस्मान्, सुहना सुष्ठु वधकर्तॄन्, शत्रून् रिपून् कृधि’ इत्यर्थयोजना कार्या।