Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 624

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
य꣢꣫द्वर्चो꣣ हि꣡र꣢ण्यस्य꣣ य꣢द्वा꣣ व꣢र्चो꣣ ग꣡वा꣢मु꣣त꣢ । स꣣त्य꣢स्य꣣ ब्र꣡ह्म꣢णो꣣ व꣢र्च꣣स्ते꣡न꣢ मा꣣ स꣡ꣳ सृ꣢जामसि ॥६२४

य꣢त् । व꣡र्चः꣢꣯ । हि꣡र꣢꣯ण्यस्य । यत् । वा꣣ । व꣡र्चः꣢꣯ । ग꣡वा꣢꣯म् । उ꣣त꣢ । स꣣त्य꣡स्य꣢ । ब्र꣡ह्म꣢꣯णः । व꣡र्चः꣢꣯ । ते꣡न꣢꣯ । मा꣣ । स꣢म् । सृ꣣जामसि ॥६२४॥

Mantra without Swara
यद्वर्चो हिरण्यस्य यद्वा वर्चो गवामुत । सत्यस्य ब्रह्मणो वर्चस्तेन मा सꣳ सृजामसि ॥६२४

यत् । वर्चः । हिरण्यस्य । यत् । वा । वर्चः । गवाम् । उत । सत्यस्य । ब्रह्मणः । वर्चः । तेन । मा । सम् । सृजामसि ॥६२४॥

Samveda - Mantra Number : 624
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यद्) अनुपमम् (वर्चः) तेजः (हिरण्यस्य) सुवर्णस्य भवति, (उत) अपि च (यद् वा) यद् अद्भुतम् (वर्चः) तेजः (गवाम्) धेनूनां सूर्यदीधितीनां वा भवति, यच्च (सत्यस्य ब्रह्मणः) सत्यस्य ज्ञानस्य (वर्चः) तेजः भवति (तेन) वर्चसा, वयम् (मा) अस्मान्। अत्र व्यत्ययेन (नः) इत्यस्य स्थाने मा इत्येकवचनप्रयोगः। (संसृजामसि) संयुक्तान् कुर्मः। सृज विसर्गे, ‘इदन्तो मसि। अ० ७।१।४६’ इति मस इदन्तत्वम् ॥१०॥
Essence
यद् हिरण्ये रमणीयत्वरूपं बहुमूल्यत्वरूपं च, धेनुषु परोपकारित्वरूपं, सूर्यरश्मिषु प्राणप्रदानत्वरूपं, सत्ये वेदज्ञाने च शुद्धत्वरूपं तेजो भवति तत्तेजो मनुष्यैरपि प्राप्तव्यम् ॥१०॥
Subject
अथ आत्मनः आशीः। वर्चः आकाङ्क्षते।