Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 623

1875 Mantra
Devata- इन्द्रः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
ह꣡री꣢ त इन्द्र꣣ श्म꣡श्रू꣢ण्यु꣣तो꣡ ते꣢ ह꣣रि꣢तौ꣣ ह꣡री꣢ । तं꣡ त्वा꣢ स्तुवन्ति क꣣व꣡यः꣢ पु꣣रु꣡षा꣢सो व꣣न꣡र्ग꣢वः ॥६२३

ह꣡री꣢꣯ । ते꣣ । इन्द्र । श्म꣡श्रू꣢꣯णि । उ꣣त꣢ । उ꣣ । ते । हरि꣡तौ꣢ । हरी꣣इ꣡ति꣢ । तम् । त्वा꣣ । स्तुवन्ति । कव꣡यः꣢ । प꣣रुषा꣡सः꣢ । व꣣न꣡र्ग꣢वः ॥६२३॥

Mantra without Swara
हरी त इन्द्र श्मश्रूण्युतो ते हरितौ हरी । तं त्वा स्तुवन्ति कवयः पुरुषासो वनर्गवः ॥६२३

हरी । ते । इन्द्र । श्मश्रूणि । उत । उ । ते । हरितौ । हरीइति । तम् । त्वा । स्तुवन्ति । कवयः । परुषासः । वनर्गवः ॥६२३॥

Samveda - Mantra Number : 623
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) परमैश्वर्यवन् परमात्मन् ! (ते) तव, त्वद्रचितानीत्यर्थः (श्मश्रूणि) कूर्चानीव प्रतीयमानाः सूर्यकिरणाः (हरी) हरीणि, मालिन्यापहारकाणि सन्ति। अत्र ‘शेश्छन्दसि बहुलम्। अ० ६।१।७०’ इत्यनेन शेर्लुक्। (उत उ) अपि च (ते) तव, त्वद्रचिते (हरितौ) पूर्वपश्चिमरूपे, उतरदक्षिणरूपे, ध्रुवोर्ध्वारूपे वा दिशौ। हरितः इति दिङ्नाम। निघं० १।६। (हरी) हर्यौ मालिन्यापहारिके स्तः। अत्र प्रथमाद्विवचने पूर्वसवर्णदीर्घः। (तं त्वा) तादृशम् अपूर्वकर्तृत्वयुक्तं त्वाम् (वनर्गवः१) वनगामिनः वानप्रस्थाः। वनर्गू वनगामिनौ इति यास्कः। निरु० ३।१४। (कवयः परुषासः) मेधाविनः पुरुषाः। परुषासः इत्यत्र ‘आज्जसेरसुक्। अ० ७।१।५०’ इति जसोऽसुगागमः। उकारस्य अकारादेशश्छान्दसः। (स्तुवन्ति) स्तुतिविषयीकुर्वन्ति ॥९॥ अत्र ‘हरी-हरी’ इत्यावृत्तौ यमकालङ्कारः। ‘हरी-हरि-हरी’ इत्यत्र च वृत्त्यनुप्रासः। सूर्यकिरणानां श्मश्रुनाम्ना वर्णनादसम्बन्धे सम्बन्धरूपोऽतिशयोक्तिरलङ्कारः ॥९॥
Essence
परमात्मना रचिताः सूर्यचन्द्रतारादिग्विदिक्प्रभृतयः सर्वेऽपि पदार्था विलक्षणास्तन्महिमप्रकाशकाश्च सन्ति ॥९॥
Subject
अथेन्द्रो देवता। इन्द्रनाम्ना परमात्मा वर्ण्यते।
Footnote
१. वननीयाः सम्भजनीयाः सेवनीयाः गावो येषां ते वनर्गवः। मध्यरेफश्छान्दसः, गोस्त्रियो(१।२।४८)रिति ह्रस्वत्वम्—इति सा०।