Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 622

1875 Mantra
Devata- द्यावापृथिवी Rishi- वामदेवो गौतमः Chhand- त्रिष्टुप् Swara- धैवतः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
म꣡न्ये꣣ वां द्यावापृथिवी सु꣣भो꣡ज꣢सौ꣣ ये꣡ अप्र꣢꣯थेथा꣣म꣡मि꣢तम꣣भि꣡ योज꣢꣯नम् । द्या꣡वा꣢पृथिवी꣣ भ꣡व꣢तꣳ स्यो꣣ने꣡ ते नो꣢꣯ मुञ्चत꣣म꣡ꣳह꣢सः ॥६२२॥

म꣡न्ये꣢꣯ । वा꣣म् । द्यावापृथिवी । द्यावा । पृथिवीइ꣡ति꣢ । सु꣣भो꣡ज꣢सौ । सु꣣ । भो꣡ज꣢꣯सौ । ये꣡इति꣢ । अ꣡प्र꣢꣯थेथाम् । अ꣡मि꣢꣯तम् । अ । मि꣣तम् । अभि꣢ । यो꣡ज꣢꣯नम् । द्या꣡वा꣢꣯पृथिवी । द्या꣡वा꣢꣯ । पृथिवीइ꣡ति꣢ । भ꣡व꣢꣯तम् । स्यो꣣नेइ꣡ति꣢ । ते꣡इति꣢ । नः꣣ । मुञ्चतम् । अँ꣡ह꣢꣯सः ॥६२२॥

Mantra without Swara
मन्ये वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममितमभि योजनम् । द्यावापृथिवी भवतꣳ स्योने ते नो मुञ्चतमꣳहसः ॥

मन्ये । वाम् । द्यावापृथिवी । द्यावा । पृथिवीइति । सुभोजसौ । सु । भोजसौ । येइति । अप्रथेथाम् । अमितम् । अ । मितम् । अभि । योजनम् । द्यावापृथिवी । द्यावा । पृथिवीइति । भवतम् । स्योनेइति । तेइति । नः । मुञ्चतम् । अँहसः ॥६२२॥

Samveda - Mantra Number : 622
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (द्यावापृथिवी२) भूम्याकाशौ इव मातापितरौ, अध्यापिकोपदेशिके वा ! अहम् (वाम्) युवाम् (सुभोजसौ) सुपालनकर्त्र्यौ (मन्ये) जानामि। (ये) ये युवाम् (अमितम् योजनम् अभि) अपरिमितयोजनपर्यन्तम् (अप्रथेथाम्) यशसा प्रख्याते स्थः। हे (द्यावापृथिवी) पृथिवीसूर्यौ इव मातापितरौ अध्यापिकोपदेशिके वा ! युवाम् अस्मभ्यम् (स्योने) सुखकारिण्यौ (भवतम्) जायेथाम्। (ते) ते युवाम् (नः) अस्मान् (अंहसः) पापात् (मुञ्चतम्) मोचयतम् ॥८॥
Essence
मातापित्रोरध्यापिकोपदेशिकयोश्च सकाशात् सच्छिक्षां सदुपदेशं च प्राप्य सन्तानाः सुज्ञानाः शुभकर्माणो निष्पापाश्च भवन्तु ॥८॥
Subject
अथ द्यावापृथिवी देवते। मातापितरौ अध्यापिकोपदेशिके वा प्रार्थयते।
Footnote
१. अथ० ४।२६।१, ऋषिः मृगारः। ‘मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि। प्रतिष्ठेह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥’ इति पाठः। २. द्यौष्ट्वा पिता पृथिवी माता। अथ० २।२८।४, द्यौरहं पृथिवी त्वम्। अथ० १४।२।७१। द्यावापृथिव्यौ अध्यापिकोपदेशिके स्त्रियौ—इति य० ३७।३ भाष्ये द०।