Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 621

1875 Mantra
Devata- पुरुषः Rishi- नारायणः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
त꣡तो꣢ वि꣣रा꣡ड꣢जायत वि꣣रा꣢जो꣣ अ꣢धि꣣ पू꣡रु꣢षः । स꣢ जा꣣तो꣡ अत्य꣢꣯रिच्यत प꣣श्चा꣢꣫द्भूमि꣣म꣡थो꣢ पु꣣रः꣢ ॥६२१॥

त꣡तः꣢꣯ । वि꣣रा꣢ट् । वि꣣ । रा꣢ट् । अ꣣जायत । वि꣣रा꣢जः । वि꣣ । रा꣡जः꣢꣯ । अ꣡धि꣢꣯ । पू꣡रु꣢꣯षः । सः । जा꣣तः꣢ । अ꣡ति꣢꣯ । अ꣣रिच्यत । पश्चा꣢त् । भू꣡मि꣢꣯म् । अ꣡थ꣢꣯ । उ꣣ । पुरः꣢ ॥६२१॥

Mantra without Swara
ततो विराडजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥

ततः । विराट् । वि । राट् । अजायत । विराजः । वि । राजः । अधि । पूरुषः । सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथ । उ । पुरः ॥६२१॥

Samveda - Mantra Number : 621
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ततः) तस्मादेव निमित्तकारणरूपात् परमपुरुषात् परमेश्वरात्। निमित्तकारणेऽपि क्वचित् पञ्चमी दृश्यते, यथा ‘आदित्याज्जायते वृष्टिः’ इति मनुः ३।७६। (विराट्) विशेषेण देदीप्यमानं पिण्डम् (अजायत) उत्पन्नम्। (पूरुषः) सर्वत्र पूर्णः परमेश्वरः एव (विराजः अधि२) तद् विशेषेण राजमानं पिण्डम् अधितिष्ठति स्म। (जातः सः) उत्पन्नं तत् विराडाख्यं पिण्डम् (अत्यरिच्यत३) अतिरिक्तं जातं, भूम्यादिखण्डेषु प्रविभक्तम् इत्यर्थः। स परमेश्वरः (भूमिम्) भूम्यादिलोकोत्पत्तेः (पश्चात्) अनन्तरम् (अथ उ) अथ च (पुरः४) पूर्वम्, विद्यमानः आसीत् ॥७॥५
Essence
अस्माकं सौरमण्डलस्य जन्म कथं सञ्जातमिति मन्त्रेऽस्मिन् वर्णितम्। आदौ तावद् बृहन्नीहारिकारूपं देदीप्यमानं प्रज्वलत् पिण्डमेकमुत्पन्नम्। आकाशे वेगेन परिभ्राम्यतः तस्मात् कानिचित् खण्डानि पृथग्भूतानि। अवशिष्टो भागः सूर्यो जातः, पृथग्भूतानि खण्डानि च भूमिमंगलबुधबृहस्पत्यादीनि संजातानि। एवमेवान्येषामपि सौरमण्डलानामुत्पत्तिर्जातेति बोध्यम्। परमात्मनोऽधिष्ठातृत्व एव एतत्सर्वं सम्पन्नम् ॥७॥
Subject
अथ परमपुरुषात् सृष्ट्युत्पत्तिमाह।
Footnote
१. ऋ० १०।९०।५, ‘ततो’ इत्यत्र ‘तस्माद्’ इति पाठः। य० ३१।५। अथ० १९।६।९, ‘ततो विराडजायत’ इत्यत्र ‘विराडग्रे समभवत्’ इति पाठः। २. विराजः अधि उपरि अधिष्ठाता पूरुषः परिपूर्णः परमात्मा—इति य० ३१।५ भाष्ये द०। ३. अत्यरिच्यत अतिरिक्तोऽभूत्। विराड् व्यतिरिक्तो देवतिर्यङ्मनुष्यादिरूपोऽभवत्—इति सा०। यजुर्भाष्ये महीधरोऽपि तथैवाह। ४. पूर्यन्ते सप्तभिर्धातुभिरिति पुरः शरीराणि—इति सा०। यजुर्भाष्ये महीधरोऽपि तथैवाह। तत्तु स्वरविरुद्धम्। पुरः पुरस्ताद् वर्तमानः—इति द०। ५. दयानन्दर्षिर्मन्त्रमिमं यजुर्भाष्ये “परमेश्वरादेव सर्वं समष्टिरूपं जगज्जायते, स च तस्मात् पृथग्भूतो व्याप्तोऽपि तत्कल्मषालिप्तोऽस्य सर्वस्याधिष्ठाता” इत्यादिरूपेण व्याख्यातवान्।