Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 620

1875 Mantra
Devata- पुरुषः Rishi- वामदेवो गौतमः Chhand- अनुष्टुप् Swara- गान्धारः Kaand Name- आरण्यं काण्डम् Gaan- आरण्य गान
Mantra with Swara
ता꣡वा꣢नस्य महि꣣मा꣢꣫ ततो꣣ ज्या꣡या꣢ꣳश्च꣣ पू꣡रु꣢षः । उ꣣ता꣡मृ꣢त꣣त्व꣡स्येशा꣢꣯नो꣣ य꣡दन्ने꣢꣯नाति꣣रो꣡ह꣢ति ॥६२०॥

ता꣡वा꣢꣯न् । अ꣣स्य । महिमा꣢ । त꣡तः꣢꣯ । ज्या꣡या꣢꣯न् । च꣣ । पू꣡रु꣢꣯षः । उ꣣त꣢ । अ꣣मृतत्व꣡स्य꣢ । अ꣣ । मृतत्व꣡स्य꣢ । ई꣡शा꣢꣯नः । यत् । अ꣡न्ने꣢꣯न । अ꣣तिरो꣡ह꣢ति । अ꣣ति । रो꣡ह꣢꣯ति ॥६२०॥

Mantra without Swara
तावानस्य महिमा ततो ज्यायाꣳश्च पूरुषः । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥

तावान् । अस्य । महिमा । ततः । ज्यायान् । च । पूरुषः । उत । अमृतत्वस्य । अ । मृतत्वस्य । ईशानः । यत् । अन्नेन । अतिरोहति । अति । रोहति ॥६२०॥

Samveda - Mantra Number : 620
(Kauthum) पूर्वार्चिकः: » Prapathak » 6; Ardh Prapathak » 3; Dashati » 4;
(Rananiya) पूर्वार्चिकः: » Adhyay » 6; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(तावान्) तत्परिमाणः पूर्वोक्तः (अस्य) परमेश्वरस्य (महिमा) महत्त्वम् अस्ति, वस्तुतस्तु (पूरुषः) स पूर्णः परमेश्वरः। अत्र ‘अन्येषामपि दृश्यते। अ० ६।३।१३७’ इति दीर्घः। (ततः) तस्मादपि (ज्यायान्) वर्षीयान् विद्यते। (उत) अपि च, सः (अमृतत्वस्य) मोक्षस्य, (यत्) यच्च (अन्नेन) अन्नभक्षणेन (अतिरोहति) वर्द्धते तस्य सांसारिकस्य प्राणिजातस्य च (ईशानः) अधिष्ठाता वर्तते ॥६॥२
Essence
अवर्णनीयः खलु परमेश्वरस्य महिमा यः संसारचक्रप्रवर्तनं मोक्षं चाप्यधितिष्ठति ॥६॥
Subject
अथ पुनस्तस्यैव परमपुरुषस्य महिमानमाह।
Footnote
१. ऋ० १०।९०।३, य० ३१।३, उभयत्र ‘एतावानस्य महिमातो ज्यायांश्च पूरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि’ इति पाठः। २. किं च, यज्जीवजातम् अन्नेन अतिरोहति उत्पद्यते तस्य सर्वस्य चेशानः—इति यजुर्भाष्ये भ०। यदन्नेनातिरोहति तदिदं सर्वममृतत्वस्येशानः पुरुष एव रचयति—इति च तत्रैव द०।